________________
अष्टमोऽरः उभयनियमनयः
२७७
करण्यं साक्षाद्विधिवादमत इव तवापि सच्छन्दोऽसदसत्त्ववदर्थो न भवतीति।
शब्दमात्रं हि तत्र प्रतीयते नार्थः, निमित्ताभावात्, छत्रिदण्डिवत्, यथा छत्रनिमित्तश्छत्री, दण्डनिमित्तो दण्डी, भिन्ननिमित्तत्वात् परस्परासमानाधिकरणौ तथा व्यावृत्तिमत्सच्छब्दपक्षे ऽपि सन् घट इति भिन्नव्यावृत्तिविशिष्टसद्धटत्वसामान्ययोर्भेदादित्यत ऊर्ध्वं तुल्यगमनीयमेव विधिपक्षदूषणेन सर्वम्।
तद्व्याख्या – एकस्मिन्नर्थे घटादौ घटत्वपृथिवीत्वद्रव्यत्वसत्त्वादिभिने वक्तृषु कश्चिद्धट इति ब्रूते कश्चित् पृथिवीत्यादि यावत्सनिति, तत्र सोऽर्थः घटरूपेण कृत्स्रो वाऽभिधीयेत? एकदेशेन वा? न तावत् कृत्स्रः तस्मिन्नेव काले वक्तुं शक्यः, तस्य पृथिवीत्वेनाभिधानासम्भवप्रसङ्गात्, न ह्यघटव्यावृत्तिरूपसामान्य गृहीत्वाऽतद्रूपाभिधायिशब्दप्रयोगो युक्तः, स चेतरवक्तृवशादपि कृत्स्रो घटरूपेण स्थित इत्यसम्भवो रूपान्तरस्य, कृत्स्रस्यैकव्यावृत्तिसामान्यरूपप्रतीतेः, अथास्यैकदेशं घट इत्यघटनिवृत्त्या गृह्णात्येकः, अपरोऽपार्थिवनिवृत्त्या देशं पार्थिव इति मतं तदयुक्तम्, अप्रतीतेरतदसत्त्ववत्सामान्यविषयत्वाच्च, यथाऽऽचार्यो मातुल इति।
___ अथापि स्यादसद्ध्यावृत्तिजातिमत्येकत्रासदसत् वर्तते साक्षात् ततो बह्वा सत्ता, तस्याश्च सत्यां घटादिभेदवादिभिः शब्दैः सामानाधिकरण्यं भविष्यति, तत्सामान्यगुणत्वात्, तद्वाचिशब्दस्यापि तद्व्यवच्छेद्यविषयत्वात् । तद्यथा - अनन्यद्रव्यवर्ति. नीलगुणसामान्येऽनीलनिवृत्तिसामान्यस्य नीलेतरादिद्रव्यवृत्तित्वात्