________________
२७६
द्वादशारनयचक्रे 'नापोहशब्दो भेदानामानन्त्याव्यभिचारतः। वाचको नियमार्थोक्तेर्जातिमद्वदपोहवान् ॥ न जातिशब्दो भेदानामानन्त्याव्यभिचारतः।
वाचको नियमार्थोक्तेः सत्ताद्यर्थोऽप्यतो न सः॥" इति, एवं सन्मात्रसत्ताद्यापादनवदिहापीति तुल्यदोषत्व विवक्षया भवन्तमन्यांच प्रति न जातिशब्द इत्यादिरारभ्यते, जातिशब्दस्तावत् सदादिः, सच्छब्दो हि जातिसम्बन्धिनो जातिमुपादाय द्रव्यादीनभेदोपचारादाह, तस्माद्यपदिश्यते जातिशब्द इति, यथा सिंहो माणवक इति, कस्मान वाचकः? आनन्त्याद्भेदानाम्, आनन्त्ये भेदानामशक्यः शब्देन सम्बन्धः कर्तुम्, आनन्त्याद्वा द्रव्यादीनाम्, ते हि घटपटरथादिभेदेनानन्ताः, सम्बन्धान्तरविशिष्टाभिधायी शब्दः सम्बन्धान्तरविशिष्टशब्दवाच्यमसमर्थो वक्तुम्, गवावादिवत्, न च कृतसम्बन्धः शब्दः ततो हि सम्बन्धाशक्यता, सम्बन्धाव्युत्पत्तेरनभिधानं स्वरूपमात्रप्रतीतेः यत्र शब्दस्यार्थेन न सम्बन्धो व्युत्पत्तौ यथा म्लेच्छशब्दानाम् तत्र शब्दमात्रमेव प्रतीयते नार्थ इत्यादिः सह टीकया भाष्यग्रन्थो द्रष्टव्यो यावत् .... अगुणत्वाब्यभिचारादिति, एतावच्च...... स्वाधारो वा तवास्ति सम्भव इति।
अथवा भेदात्, यस्माब्यावृत्तिमानसदसत्तावान्, अतो न तस्य भेदा घटादय इति स एव दोषः, तेन सहाभूतसामान्यत्वात्, यो येन सहाभूतसामान्यस्तस्य तेन सामानाधिकरण्यं न भवति, यथा सत्त्ववदर्थसच्छब्दस्य घटादिभेदार्थत्वाभावात् तेन सहासामानाधि