________________
२७५
अष्टमोऽर: उभयनियमनयः राजवदमात्य इति भिन्न एवाभेदोपचारा भवति, क्रमवृत्त्यभावाच्च, न हि क्रमेण सकृदुच्चरितः शब्दः क्षणिकत्वादसदपोहवर्त्तित्वात्तद्वति वर्त्तते राजभृत्यबुद्धिवत्।
नापि गुणोपरागात् स्फटिकवत्, विशेषणप्रकर्षमगृहीत्वा विशेष्ये प्रत्ययप्रसङ्गात्, अयथार्थज्ञानापत्तेः, युगपदसम्भवाच्च, यथा च बहवो ग्रहीतारो भवन्ति गुणवतः शुक्लादेः तदा गुणोपकारे विरुध्यते, न हि शक्यं तदा द्रव्येणैकगुणरूपेण स्थातुम्, अनेकात्मकस्याविशिष्टत्वेऽप्येकदेशेन गुणरूपमनुभवितुं शक्यम्, कृत्स्रस्य घटादिरूपप्रतीतेः, अथ पुनः सर्वैर्घटत्वादिभिरुपकारो युगपत् कृत्स्रस्य क्रियते ततः सर्वेषां प्रत्येकं ग्रहीतॄणां घटादिरूपग्रहणाभावात् सर्वगुणसङ्करणमेवैकदर्शनं युगपत् सर्वरूपापत्तेः स्यात् स्फटिकवदेव, स्वशब्दार्थप्रवृत्ति ....।
इतश्च त्वन्मतिवत् तद्वतो न वाचको भेदात्, भिन्ना हि व्यावृत्तिमन्तः सत्त्ववन्त इवार्था घटादयः, असदसन्तोऽर्था घटादयो भेदानाश्वानन्त्ये सम्बन्धाशक्यत्वात् व्यभिचाराच्चावाचक इत्युक्तं प्राक् त्वयैव।
ननु चायं घटादिषु सत्त्ववन्मात्रपक्ष इवासदसन्मात्रपक्षे भेदानभिधानेन दोषः परिहृत इत्यत्र ब्रूमः यस्याभिधानं शब्द इष्यते सोऽर्थोऽसदसन्मात्राख्यो भेदवत्सत्त्वं वा स्यात्, भेदनिरपेक्षा सत्तैव वा, सत्तासम्बन्धो वा सत्त्ववन्मात्रं वा, तत्र सन्मात्रविधिवादिमतवदपोहवादिमतेऽपि विकल्पचतुष्टये स्थिते समान एवात्रापि विचारो ग्रन्थश्च।