SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २७४ द्वादशारनयचक्रे सामान्यश्रुतिरित्युच्येत, अत्र प्रयोगः न सच्छुतिः सामान्यश्रुतिः भेदानाक्षेपादिति। अथ वा 'तद्वतो नास्वतन्त्रत्वात् भेदाज्जातेरजातितः" इति सच्छब्दो मुख्यया वृत्त्या प्रकाश्यमानः संवृतिसद्वस्तुस्वरूपव्यवहितमाह, न च स तत्र वृत्तः स्वरूपव्यवहितेऽर्थे सत्यसतो व्यावृत्तेरसंभवात्, न तु तथा किश्चित्सत् तत्तुल्यमस्ति, सतोऽन्यस्यासत्त्वात् । इत्थं सच्छब्दोऽसद्व्यावृत्तिं न करोति भूतार्थेन किन्तूपचारादसदसवीति, सोऽपोहेऽपि तावददृष्टत्वात्तद्वति दूरत एवेत्यप्रधानत्वादस्वतन्त्रः, नहि यत्रोपचर्यते स तमर्थं भूतार्थेनाहेति, तथा चोक्तं 'मञ्चशब्दो यथाऽऽधेयं मञ्चेष्वेव व्यवस्थितः। तत्त्वेनाह तथाऽपोहशब्दो द्रव्येषु वर्तते ॥२ इति। एतदनभ्युपगमेऽप्ययमन्योऽर्थोऽन्यापोहवत्पक्षदूषणः, स्वरूपे ऽन्यापोहे च मुख्यया वृत्त्या तद्वत्युपचारेण वर्त्तते शब्दः, नाभिधानेनाह उपचारात्, सच्छब्दो हि अपोहवत्युपचर्यते न स तमर्थमभि -धानेनाह, मञ्चशब्दवदिति, सोऽप्युपचारो न घटत इति ब्रूमः, द्वयी ह्युपचारस्य गतिः सारूप्यात्, यथा राजामात्ययोरन्यतरस्मिन् स एवायमिति, प्रत्ययसङ्क्रान्तेः गुणोपकाराद्वा उपधानानुरागादिव स्फटिके रक्तत्वादिबुद्धिः, तत्र न तावत् सारूप्यात् प्रत्ययसङ्गान्तेरुपचारो यमलादिवत् सारूप्यासम्भवे प्रत्ययसङ्क्रान्त्यसम्भवात्, स्वामिभृत्ययोभिन्नत्वात्, यदि सैव बुद्धिः सङ्क्रान्ता स्यात् स्वामिनि भृत्ये च स्वाम्यनुज्ञातमुक्तवति न तु भवति, किं तर्हि? १. प्रमाणसमुच्चयः
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy