________________
अष्टमोऽरः उभयनियमनयः
२७३
द्वचनत्वात् भवत्साक्षाद्वचने च गुणपर्यायलक्षणं विशिष्टं भवदेव सत्यं वस्त्वभिधीयते प्राधान्येन, द्रव्यघटपटादिभेदजातं गुणकर्मसामान्यविशेषादि वाऽसत्, संवृतिसत्त्वात्, गुणपर्याय लक्षणो हि विशेष एव सन्, अङ्गुलिव्यतिरिक्तमुष्ठिवत् बलाकादिव्यतिरिक्तपतयादिवच्चेति नास्वतन्त्रविशिष्टं भवद्वस्तु असदुपसर्जनं जात्युपसर्जनं वा रूपनीलत्ववदिति। __यथा चाहुः सच्छब्देन सह भेदशब्दा न समानाधिकरणाः तदभिधानेनानाक्षिप्तत्वात् शुक्लाभिधानानाक्षिप्तमधुरादिवत्, सच्छब्दो भेदैः सह न सामान्याभिधायी, भेदानाक्षेपात्, यथा शुक्लशब्दो मधुरादिभिः सह न सामान्यवाची, द्रव्यादिशब्दो न साक्षात् विशेषशब्द एव तबारेण विशेषार्थ एव वा, तद्विशेषासम्बन्धित्वात्, मधुरशब्द इव शुक्लब्दो न।
__सच्छब्दो वाऽसद्यावृत्तिमन्तं नाभिधत्ते घटादिशब्दैः सहासमानाधिकरणत्वात्, अनित्यशब्दवत्, यथा चाह
'विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः ।
विशेषशब्दैरुच्यन्ते व्यावृत्तार्थाभिधायिनः ॥" इति, एतेनैव यत्नेन त्वदीयेन च कृतप्रयोजनत्वान्न पृथग्दूष्यते ।
ननु चासदसच्छुतेः सामान्यश्रुतित्वादयमप्रसङ्गः, अत्र ब्रूमः केन तस्याः सामान्यश्रुतित्वम्? यदा सा स्वरूपगुणमात्रविशिष्टं द्रव्यमाह तदा भेदानामनाक्षेपात् कस्य तत्सामान्यमभिवदतीति १. वाक्यपदीयम् काण्डः ३ श्लोकः ४