________________
द्वादशारनयचक्रे तस्माच्छुक्लशब्दो मधुरादिकं नैवाक्षिपति, एवमिहापि सच्छब्दो पूर्वमसन्न भवतीत्यसद्व्यावृत्तिमुक्त्वा तद्वन्तमाह सत्त्वद्रव्यमभेदवदिति नयेन, तस्मात् सद्द्रव्यं सन् गुणः सत्कर्मेत्यादौ सच्छब्द उदकादिना द्रव्यभेदेन रूपादिगुणभेदेन गमनादिकर्मभेदेन वा तद्वत्तं विशेषं तान् विशेषान् वा, सत्त्वमात्रवत् इति सच्छब्दवाच्यार्थाभेदत्वं द्रव्यादीनां घटादीनाञ्च ।
२७२
सच्छब्दो हि सदित्यसन्न भवतीत्यसत्त्वादवच्छिन्नं धर्मिणोऽश मात्रमभिधत्ते, न तस्यान्यं कश्चिदपोहते, नित्यत्वाद्यंशवत्, तत्स्वरूपजातिबिशिष्टद्रव्याभिधायित्वात्, तद्वत्, शुक्लश्रुतिवत् यथाऽशुक्लनिवृत्तिमात्रं धर्मं शुक्लशब्दोऽभिधत्ते तथा सच्छब्दोऽसन्निवृत्तिमात्रमुक्त्वा तदुपसर्जनं द्रव्यमाह, द्रव्यशब्दश्वाद्रव्यं न भवतीत्येताबदभिधत्ते, न तद्विशेषम्, इत्थं तयोरवच्छिन्नभागमात्रविषयत्वादभेदवत्त्वान्निर्विषयत्वम्, निर्विषयत्वात् कुत एकार्थता ? असदसद्रूपे sपि नसतो भेदा द्रव्यादयः, न द्रव्यस्य घटादयः, न वा सच्छब्दस्य द्रव्यादिशब्दाः, तस्मादतद्भेदत्वम् ।
ननु च तत्र दृष्टं शुक्लखण्डादिसामानाधिकरण्यम्, अथवा दृष्टविरुद्धं त्वयोच्यते शुक्लशब्दस्वरूपजातिगुणानां खण्डद्रव्यस्य वा ऽत्यन्तभिन्नार्थत्वम्, पुनस्तच्च खण्डं मधुरमिति शुक्लतरः शुक्लतम इति शुक्ला शङ्खस्य जातिर्नित्येति च, इह वा किं न दृष्टं सद्द्रव्यं सद्गुणः सत्कर्मेति एतदेव तु दृष्टं सामानाधिकरण्यं गुणशब्दत्वे विशेषणद्वारेण शब्दस्वरूपजात्युपसर्जने तद्वति वा न प्राप्नोतीत्युच्यते परं प्रति दोषः, यथा चैते जातिमत्पक्षे सच्छब्दे घटाद्यनाक्षेपादिदोषाः शुक्लशब्द - मधुरानाक्षेपादिदृष्टान्तास्तथाऽन्यापोहपक्षे सच्छब्देऽपि, असाक्षा