________________
अष्टमोऽर: उभयनियमनयः
२७१
प्रवर्त्तमानोऽन्यापोहसामान्यगतं नित्यत्वादिभेदं नाक्षिपति, अन्यापोहेऽपक्षीणशक्तित्वात्, किमङ्ग ! पुनस्तद्गतान् भेदान् घटादीनाक्षेप्यत्ति?___एतदर्थव्यक्तीकरणार्थं सदित्यसन भवतीति वाक्यमवश्यं उपादेयम्, सच्छब्दमात्रादनभिव्यक्तेः, तत्र चावश्यं भवतिशब्दः प्रयोक्तव्यः, क्रियापदमन्तरेण सच्छन्देन सह प्रयुक्तनजोराभावात् सदर्थ एव मुख्यः श्रयणीयः, स चाव्याहत एष्टव्यः, एवं गमिष्यमाणघटादिद्रव्यप्रभेदस्य तिरस्कृतपटाद्यपेक्षासत्त्वस्य प्राप्तिमनोरथैरपि न लभ्येत, असद्विविक्तसत्त्वप्राप्तावेव यत्नस्ते, कुत एव तदन्यापोहः? भवत्यसम्भेदेऽविविक्तैकसत्त्वप्राप्तौ तवान्यापोहयत्रवैयर्थ्य मेव, घटस्य पटभावादित्यलमुद्धट्टनेन।
अयन्तु गुणधर्म एवैषः स्वतोऽन्यान् व्यावर्तयन् द्रव्यमात्रमभिधत्ते पारतन्त्र्यात्, ततश्च घटादिभेदानाक्षेपात्तैः सह सामानाधिकरण्याभावः, स्यादेवं अनाक्षिप्तैरव्याप्तैरपि सामानाधिकरण्यं भविष्यति विवक्षावशात्, अत्र पर एवाह - न ह्यसत्यां व्याप्ती..........रूपं शुक्लं रूपं नीलमिति, तद्वति श्रुतगुणगतभेदाभेदत्वादनाक्षेपस्ततो जातेरपोहाद्वाऽन्यस्य तद्वतः यथा सत्त्वपक्षे शब्दस्वरूपं गुण एव, जातिगुणौ गुणो द्रव्यञ्च, द्रव्यन्तु द्रव्यमेव। ___स्वरूपापोहगुणा विशेषणान्यनुग्राहकत्वापेक्षयोच्यन्ते, अपोह . -गुणद्रव्याणि च प्रधानान्यनुग्राह्यत्वापेक्षया, शुक्लशब्दो ह्यशुक्लत्वनिवृत्त्या शुक्लमाह शुक्लतरादयश्च तद्भेदास्ततश्चात दत्वं शुक्लाभेदत्वं