________________
२७०
द्वादशारनयचक्रे
घटादिसर्वसंवृत्यर्थासत्त्वादगतिरेव, अनन्तरातीतासद्वस्त्वामानात्, अर्थविशेषश्च न वाच्य एव, यथोक्तं
'नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते।
तस्य पूर्वमदृष्टत्वात् सामान्यन्तूपदेक्ष्यते ॥" इति सामान्यस्यासत्त्वाद्विशेषस्यावाच्यत्वात् कतमोऽन्यः स्वार्थः? अस्मन्मतेन त्वभिधेयो विधिरेवावश्यम् । अस्य च वाक्यस्य यदा तदाऽनेनैव विषयेण भवितव्यम्, अन्यस्यार्थस्याभावात्, उक्तवत् तथा चान्यापोहोपेक्षा।
ननु चात्राप्यपोहो देशकालभेदानां परस्परतः, अत्रोच्यते - अत एवोपेक्ष्यः, पारस्पर्यस्य विशिष्टार्थविषयत्वाद्विधेरेव व्यावृत्तरूपत्वाच्च, भवतु वा तत्रापोहः तथापि सर्वविशेषयुक्तस्यैव स्वार्थस्य गमनमुपलक्ष्यते, स्वरूपविधिविनाभूतस्यासम्भवात्, न च पूर्वदृष्टः सः, नापि पूर्वदृष्टेनार्थः अज्ञातज्ञानार्थत्वाच्छ्रोतुः, एवञ्च
'अर्थशब्दविशेषस्य वाच्यवाचकतेष्यते।
तस्य पूर्वमदृष्टत्वात् सामान्यादुपसर्जनात्॥' । इत्थं श्लोकः पठनीयः।
यथासङ्ग्यमर्थविशेषस्य वाच्यता शब्दविशेषस्यैव वाचकता ऽस्माभिरिष्यते, अनयोरेव सत्त्वात्, तस्य विशेषस्य पूर्वमदृष्टत्वात् स एवाज्ञातत्वात् ज्ञाप्यते, सामान्यादुपसर्जनात्, अतद्भेदत्वे सामानाधिकरण्याभावः, असदसच्छब्दाभिधेयंवस्त्वविशेषत्वे सतः साक्षादनुक्तेः, कथं साक्षान्न ब्रवीति सत्? अन्यापोहेऽपि हि साक्षात् १. प्रमाणसमुच्चयः