________________
अष्टमोऽर: उभयनियमनयः
२६९ यदपि च तत्सदित्यसन्न भवतीति सच्छब्दार्थोऽसच्छब्दार्थ निवर्तयतीति तदपि परिलथम्, युगपदयुगपद्भाविनोऽर्थस्यासत्त्वाविनाभाविन एव सत्त्वात् युगपद्भूतपटाद्यभवनेनैव घटभवनं दृष्टम्, तस्माद्भवनाभवने न न भवत्यसनिति, अन्यथाऽनुपपत्तेः त्वन्मतवत् उक्तवच्चायुक्तं सदित्यसन्न भवतीति।
अयुगपद्भूतपूर्वोत्तरभावाभावे वर्तमानभावो दृष्टः, यदि तु सदसन्न भवेत् ततोऽन्यापोहो निर्विषय एव भवेत्, तद्यथा - घट इत्यघटो न भवतीति नैव स्यात्, अघटसत्त्वाभावाद्धटसत्त्वाभावाच, घटस्याघटत्वेनात्मासद्रूपेणापि पटादिना भवनात् ।
ततश्चेदं दोषजातमापद्यते 'भेदो भेदान्तरार्थन्तु विरोधित्वाद पोहते" इत्यादि यथार्थं तथा न भवति, नापोहताऽप्येवम्, विरोध्यविरोधित्वात्, अथ युगपदयुगपद्भावि सर्वभावभेदभवनस्य भवननियमः सनेवासन भवतीत्युच्यते घटाद्यसद्वयुदासेनेत्यदोषः, तदपि न, विदितभवनानुवादत्वादेवंवादिनस्ते घटादिरूपाद्यसत्त्वात्तद प्रसिद्धौ घटो रूपादिर्वा भवति न भवति, अपोह्यते नापोह्यते वा, स्वार्थो न स्वार्थ इत्याद्यनुवादायुक्तेः, अनुवदता च त्वया घटादिरूपादेः सदित्यभ्युपगतम्, अतोऽसत्त्वादुक्तदोषाविमोक्षः।
नैव चैवं रूपादिव्यतिरिक्तघटायसत्त्वाभ्युपगमेऽनिदेश्यपरमनिरुद्धक्षणिकसन्तानिव्यतिरिक्तसन्तानरूपाद्यसत्त्वाभ्युपगमे च घटादिविशेषः स्वार्थ इति वचनम्, प्रतिपक्षापेक्षणक्षीणशक्तिवात्, साध्यविशेषस्वार्थागतिवत्। १. प्रमाणसमुच्चयः