________________
२६८
द्वादशारनयचक्रे
एव स्वार्थो निश्चित इति मतं तथापि स्वार्थ इत्याधाराधेयादर्शनात् स्वरूपविधिविनाभूतत्वाद्विधीयमानस्वार्थानवस्थानादन्यशब्दान्तरार्थयोरस्थितरूपत्वात् कस्मिन् स्वार्थे कोऽसावन्यो यस्मादपोह्यते?
___ अन्योऽनन्यो न भवतीति चेत् ननु स एव विधिः स्वार्थः, तस्याग्रहणे नेत्यादिबुद्धेरभावात्, इतरथाऽन्यो न भवतीति व्यावृत्तिमात्रस्थितित्वादप्रतिष्ठितस्वार्थयोस्ततोऽयमन्यः, अतश्चान्यः स इति तदेतयोर्ग्रहणाभावात् कुतः कोऽन्यः? कुतोऽस्यापोहः? इतरेतराश्रयभावदोषश्च – तस्मादन्यः, अन्यस्मात् स इति।
अथान्यापोहलक्षणवाक्यव्याख्यानुवृत्त्या व्यावृत्तिमत्स्वार्थो गृह्यते, हिशब्दो यस्मादर्थे, यस्मादृक्षशब्दोऽवृक्षशब्दनिवृत्तिं स्वार्थे कुर्वन् स्वार्थं वृक्षलक्षणं प्रत्याययति, एवं निवृत्तिविशिष्टं वस्तु द्रव्यादिसन् शब्दार्थो न निवृत्तिमात्र खपुष्पतुल्यम्, किन्तु तत् सदसत्, यथा कृतकत्वस्यानित्यत्वविशिष्टशब्दानुमापकत्वमेवं शब्दो ऽपि स्वमभिधेयमर्थान्तरव्यवच्छेदेन द्योतयति प्रमाणत्वात्। ___अत्र बमोऽत्रापि त्वयैवं ब्रुवतान्यापोहातिरिक्तः स्वार्थ उक्त इति विधिरेवाङ्गीकृतः अन्यव्यावृत्तस्वार्थार्थत्वात्, 'देवदत्त! गां अभ्याज शुक्लामिति गवानयनवाक्यवत्, व्यावृत्तियुक्तस्येत्यादि यावत्प्रदर्शनादिति त्वद्वचनेन निवृत्तिविशिष्टं वस्तु शब्दार्थो द्रव्यादिसन्नित्यादिना ग्रन्थेन च स्वार्थविधानमेव प्रदर्शितम्, अन्यथा सर्वत्रैव व्यावृत्तिमात्रं न स्वार्थो नाम कश्चिदस्तीति स्वार्थे कुर्वती श्रुतिरित्यनर्थकं स्यात्।