SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽरः उभयनियमनयः २६७ जाति शब्दो विशेषार्थनियमोक्तेर्भेदानामवाचकः व्यभिचारादानन्त्याच्च, जातिमतो वाचकत्वे च ये दोषास्तेऽन्यापोहवदभिधानेऽपि, प्रतिज्ञा कथं? भेदजातिजातिमदभिधानपक्षेषु दोषदृष्टेरादापनमन्यापोहकृच्छुतिरिति 'शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्ते' इत्युच्यते, अर्थों च स्वसामान्यलक्षणावुक्तौ, नातोऽन्यत् प्रमेयमस्तीति स्वार्थ एव तावदवधार्यः, स्वार्थः, स्वलक्षणोऽन्यतोऽन्योऽनन्यः स प्रत्यक्षविषयः, स इह न सम्भवति, 'स्वलक्षणमनिर्देश्यं" इत्युक्तत्वात् प्रत्यक्षविषयस्य। न च ततोऽन्यः स्वार्थः कश्चिदस्ति, लक्ष्यद्वित्वावधारणात् प्रमाणद्वित्वावधारणात्, तिष्ठतु तावत् स्वार्थः, तथाच शब्दवाच्यविचारे प्रस्तुते जातिसम्बन्धजातिमदभिधानानामसम्भवादन्यापोहकृच्छुतिरिति। ___अनुमानविषयोऽपि नैवास्य स्वार्थः, अग्निरनग्निर्नेत्यायपोहार्थस्वरूपत्वात्तस्यापि च व्याख्येयत्वात् भेदोपादानेवाऽस्वार्थत्वमपोहाादन्यत्वात्, पप्रत्यायनादित्वभिन्नार्थत्वाच्च । अथ कचिदक्षानुमानविषयत्वविचारोऽसम्बन्ध इति चेन, तृतीयार्थासम्भवादित्यादेंः प्रदर्शितत्वात् । यद्यपि प्रत्यक्षानुमान विषययोरदृष्टोऽप्यन्यापोह इत्यस्मादेव शब्दादवगन्तव्यः स्वार्थो न निराश्रयः, उक्तदोषात्, तस्माद्यस्मिन्नन्योऽपोह्यते स स्वार्थ इति घट इत्युक्तेऽघटो न भवतीति घटे पटाद्यपोहाद्धटः स्वार्थ इति शब्दविषय १. प्रमाणसमुच्चयः ५
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy