SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६६ द्वादशारनयचक्रे भवद्व्यापि पर्यायवृत्तितत्त्वमविकल्पं सत्यमसत्याः पुनरुपाधयोऽस्य लिङ्गादि, यथा द्रव्यमृद्धटकुण्डकुण्डिकादिप्रवृत्तयस्तदाभाः, तद्वस्तु व्यापिवदाभासते, एवमेव चैतद्दर्शनसंवादीदं.........आनीयताम्, सत्यस्य....... तदाख्यानमुपसर्जनम्, गृहोपलक्षणकाकवत् उदितस्यार्थवज्जातिशब्दो विशेषार्थ इति त्वद्वचनेनोक्तमपि विशेषवस्तु उक्तवत्, तद्गम्यते जातिगतलिङ्गसङ्ख्यादिसमानाधिकरणगतिनिरूपितं अनर्थिकाया एव तस्या अप्युक्तवत् परार्थत्वादर्थवत्त्वमनर्थकत्वं स्वार्थेन, वाग्विसर्गकालोपलक्षणनक्षत्रदर्शनश्रुतिवत्। अन्यथा मुख्यन्यायेन तच्छब्दार्थतायां पुनरुक्तदोषात् विशेषशब्दाप्रयोग एव स्यात्, अत एव सत्यवृत्त्या नोक्तो विशेषः, उपाधिवृत्त्योक्तोऽप्यनुक्त एव, नियमार्था पुनः श्रुतिः, तदर्थत्वात् पूर्वश्रुतेः, नियमः स्वार्थव्यवस्थापनम्, सञ्चारि चैतत् विशेषपरम्परया, तत्र कारणं द्रव्यनय........... युगपदेतस्य विशेषस्य प्रधानस्य प्रत्यायकत्वेन प्रत्ययस्य उपसर्जनमात्रप्रवृत्तिरसत्योपाधिरर्थः, यावच्च......... सर्वमनेन शब्दनयशब्दार्थेन व्याप्तम्। एवमेव चेदमपि 'न जातिशब्दो भेदानामानन्त्याव्यभिचारतः। वाचको नियमार्थोक्तेर्जातिमद्दपोहवान् ॥ इति २. प्रमाणसमुच्चये सामान्यपरीक्षायाम्
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy