________________
अष्टमोऽरः उभयनियमनयः
२६५
न तत्र काष्ठस्थाल्यादीनि नाममात्राणि न चित्रलिखितानि वा प्रवर्त्तन्ते, किन्तु तथाभूतानि तान्येव विशेषैकभवनानि, न चाग्निना शब्देन पच्यते न वा चित्रलिखितेन, न यथा मानप्रस्थकेन तथा तन्नाना।
नामप्रत्ययनामकर्मतत्त्वात्तेनैवेति चेन चेतनाभेदभूतिभूयोग्यविशेषात्मनियततत्त्वाभावे तिर्यग्गतिनिर्वर्तनीययोगवक्रतादिपरिणामातिप्रवृत्तेः फलाभावान्नामकर्माद्यनुपपत्तेः, न च चित्रलिखिताग्निप्रस्थकाभ्यां दहनमाने, तयोर्व्यवहाराक्षमत्वात् तथावृत्तिभावस्यैव व्यवहारक्षमत्वात्, द्रव्यमपि च भव्यं तथा तथा भवनात् भाव एव घटते, त्वन्मते द्रव्यभवने तु न तथा तथा भवनार्थेन भावशब्देन द्रव्यशब्दस्य सम्बन्धः, अग्निप्रस्थकादिसर्वमेकभाव एव भूतं द्रव्यार्थाभेदात्।
तथा प्रस्फुटमेव अग्निद्रव्यमिति पुनपुंसकयोर्भावभेदे सामानाधिकरण्यम्, नान्यथा दारप्रस्थकवद्वा सामानाधिकरण्ये धरण्यादावपि समानमवतिष्ठेत द्रव्यत्वादिति, तथाभूत ....... दहनोऽग्निः, एवं प्रतिपदार्थ भावनिक्षेपः शब्दनयस्योक्तो न यथर्जुसूत्रस्य नामादिचतुर्विधनिक्षेपाभिलाषिणः, अत्र च शब्दार्थोऽपि असत्योपाधिसत्यः, नानन्तरनयनिर्दिष्टोऽन्यापोहः, यथोक्तम् - 'असत्योपाधि यत्सत्यं तद्वा शब्दनिबन्धनम्" इति, विशेषा उपाधयोऽसत्याः, सद्भयो हितं सत्यं, कर्मणि चतुर्थी, प्रकृतिः सामान्यं प्रतिपाद्यम्, सामान्यवादिमते असत्यैर्विशेषैरेव विकारप्रकृतित्ववत्तदभिधीयते। १. वाक्यपदीपम् काण्डः २ श्लोकः १२९