________________
२६४
द्वादशारनयचक्रे
अक्षाद्यसद्भावस्थापनायामपि रूपान्तरश्चेद्वयावर्त्त्यरूपान्तरं न कुर्यादिन्द्रादेरक्षनिक्षेप प्रतिपाद्यस्यावरोधः स्यात् तस्मादविरुद्धाभि प्रेताकारे वृत्तो नाम्म्रा इन्द्र इति बुद्धया वाऽध्यारोपस्तत्कर्मणः, द्रव्यार्थस्थापनेन्द्रस्थूणावत् एतत्तत्त्वाध्यवसायादेव लिङ्गसमाचार देवताप्रतिमानमस्करणादि लोके रूढत्वात् स्थापनैव सर्वमिति स्थापनाद्रव्यार्थनयमतमुक्तम् ।
अत्रापि विशेषाकारस्य परमार्थस्यैकभवनस्य स्थापनानिक्षेपे कार्ये सामान्याकार उपसर्जनं प्रधानस्य परमार्थस्य, उपकारित्वात्, पाण्यङ्गुलित्वगस्थिसन्धिवर्णरेखावयवपरमाणुरूपादिभेदेष्विव प्रत्येकं विशेषतत्त्वभवनस्य, इतरदुपसर्जनम्, परमार्थतस्तु तदन्त्यविशेषतत्त्वमविकल्प्यमस्तीति न तानि पाण्यादीनि स्वरूपतः, कुतस्तेषां स्थापना ? क्षेत्रतो युगपद्भाविपर्यायेषु विशेषव्यतिरेकेणार्थाभावात्, कालतोऽपि बालाद्ययुगपद्भाविपर्यायेष्वेकं परमार्थ इति कथं स्थापना क्रियतां कस्य वा ?
असद्भाबस्थापनायाश्च प्राधान्ये पर्यायनिराकरणं स्यात्, सद्भावस्थापनायाः प्राधान्ये त्वितरनिराकरणम्, योऽपि नामबुद्धयारोप उक्तः सोऽपि नयान्तरयोर्नामद्रव्यपर्यायार्थयोर्विषयः स च विशेषभवनमेव, द्रव्यार्थस्त्वतिक्रान्तभङ्गेषु व्याख्यातो दूषित, इतस्तु भाव एवैको भवतीति, द्रव्यं द्रव्यार्थवाच्यश्चेष्टं न करोतीति भावितमेव, अतः अतः स्थितमेतत् विशेषभवनमेव परस्परानपेक्षं जगत्तत्त्वमिति, क्रियाफलाविसंवादोऽपि च, ऐहिकामुष्मिकं वा ओदनादि स्वर्गादि फलं पचिक्रियादिदानादेः,