SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽर: उभयनियमनयः २६३ यदि स्थापनया व्यतिरिक्तार्थस्वरूपं स्थाप्यं वस्त्वापद्यते ततः कस्मात् स्थाप्यवस्तुस्वरूपं उद्देश्योऽर्थो नापद्यते? इन्द्रतामक्षादिरापद्यते नाक्षतामिन्द्र इत्यत्र को विशेषहेतुः? अत्रोच्यते, नन्वसावपीन्द्रनामगोत्रकर्मस्थाप्यत्वात् स्थापनानिक्षेपात्मकतां नातिवर्त्तते, तस्मात् स्थापनानिक्षेपत्वे सत्येव जीवकर्मणोर्योगवक्रादिपरिणामवैचित्र्यं व्यक्ताव्यक्ताकारवैश्वरूप्यं न न युज्यते। अथ च स्थापनाया निक्षेप इति कर्मणि षष्ठी कृत्वा समासः, किं कर्म? स्थापनैव, का सा? आकारः, कोऽसौ? वस्त्वात्मा, स एव निक्षिप्यते, क? स्वात्मनि, कः? घटादिः, केन? कुम्भकारादिभिरिति, मुमुक्षुभिरात्मा कर्मामिश्रः स्वात्मनि, अविविक्तः सन् विविक्तरूपत्वेन, तथेन्द्रोऽपि प्रदर्यते, न हि तदाकारमन्तरेणेन्द्रः, घट इव विकुक्षित्वादिविनाभूत इति। अथ वा स्थापनायां निक्षेपो न नामि, यतो नामापि सहार्थेन तत्तत्तन्त्रमेव, स्थानकरणजन्मानो वर्णाः सङ्गत्योच्चरन्तः सुप्तिङन्तादिविशेषाकाराः, पुद्गलाच नामाख्यातवाच्यद्रव्यक्रियार्थाकाराः, सर्वं भूताकारतत्त्वस्थापनाविपरिणामविजृम्भितमात्रम्, तदभावे शब्दार्थयोरभावात्, एवं तावन्नामनिक्षेप उक्तः। द्रव्यमपि स्थापनानिक्षेप एव, आकारमयत्वात्, यथा श्रीपर्णीदारु द्रव्यं तस्य तस्यान्तर्लीनाकारम्, भावोऽपि क्रियोपयोगरूपादिनीलादिशिवकादिरूपभेदैः साकार एव, एवं निक्षेपत्रयं स्थापनानिक्षेप एव रूपान्तरव्यावर्त्तनेन रूपान्तरकरणात्मकस्थापना- ' स्वरूपानतिक्रमात्।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy