________________
२६२
द्वादशारनयचक्रे
प्रयोज्यत्ववत्, यथा पचिपठिगम्यादिक्रियाऽवधारणाभावेनानिश्चितक्रिय स्वतन्त्रकर्तारं हेतुकर्ता पच पचेति नियुङ्क्ते पचावेव स्थापयति क्रियान्तरव्यावृत्त्या तत्रैव स्थाने पच्याकारे नियमयति सा स्थापना, असद्भावेन वाऽतद्रूपेऽपि स्थूणेन्द्रवत्, तदेव हि वस्तु व्यक्ताव्यक्ताकारपरिणाम स्वयं तथा तथाऽऽकृतिवद्विशेषेऽभीष्टे स्थाप्यते।
तथाऽक्षादिषु, तस्माद्यथा बालादिपिच्छकद्रव्यपाचकादिनाम क्रियाभावभेदा विविधा उपपन्नाः सत्याश्चैवं तदाकार एक एव देवदत्तः सर्वभेदोऽपि नान्योन्यश्व, आकारपरमार्थत्वाभेदात्, एवं चित्रलेप्यपुस्तादिभेदोपपत्तावपि तथा तिष्ठतस्तस्य तस्य स्थानस्य प्रयोजनात् सा स्थापना, तत्कर्मणस्तत्त्वापत्तेरिति व्यापिता स्थापनाया इत्येवं स्याद्वादी ब्रूते, स्थापनाद्रव्यैकान्तवादिनस्तु न किश्चिदाकारव्यतिरिक्तमस्त्यतो भ्रान्तिमा भेदा इति ।
स्थापना सद्भावासद्भावाभ्यां वस्तु निक्षिपति, अतद्भूतात्मकं वस्तु तद्भावमापादयत्यात्मानमात्मनेत्युक्तं भवति, पुरुषान्नाम कर्मणो देवदत्तादितावत्, यथा पुरुषो नामकर्मप्रागमूर्तात्मा लक्षणतः सत्तात्मा कर्मत्वेन मूर्तात्मना परिवर्त्तते आभवति ततश्च नामकर्मणो देवदत्तादिता तथा चित्रकरादिः, तत्रात्मवदतथाभूतस्य तथात्वापादनात्तदेकता चित्रकर्मादिदेवदत्तस्य।
यथा च जीवत्वादि तत्पूर्वरूपं अव्यक्ताकारं सततं तिष्ठत् स्थाप्यते तथा पुद्गलानामपि वर्णादिपारिणामिका भावा अतस्तयोरेकता, आकारतत्त्वैकत्वात् ।