________________
अष्टमोऽरः उभयनियमनयः
२६१ यथा च रूपादय एकैकभवनात्मका न पर्यायान्तरमपेक्षन्ते विशेषत्वात्तथा पुष्यतारानक्षत्रादिपुंलिङ्गादयः, परस्परविरोधित्वाद्विशेषाणामित्येकमेकमेव भवनं भवतीति कुतः सामानाधिकरण्यम्, पुष्यः पुमान् स कथं स्त्री भवति तारेति नपुंसकं वा नक्षत्रमिति, एवञ्च यथार्थाभिधानमेव न्याय्यम्, लक्षणश्च यथार्थाभिधानं शब्दः, नामस्थापनाद्रव्यभिन्नलिङ्गादिवाच्येष्टाकरणाद्भावयुक्तवाची शब्द इति च, तथाऽऽचार्यसिद्धसेनोऽप्याह- . .
'णामं ठवणा दविये त्ति एस दव्वट्ठियस्स णिक्खेवो। भावो उ पज्जवट्टियस्स परूवणा एस परमत्थो॥" इति।
व्यवहारान्तःपातिस्थापनावाच्येष्टाकरणप्रदर्शनार्थन्तु स्थीयते यस्मिंस्तत्स्थानम्, भावः क्रिया, केन स्थीयते? स्थानकत्रेति, क च स्थीयते? आकारे, आ मर्यादया करणमभिविधिना, प्रस्तुतस्य रूपस्याभिविधिः परिसमापनमभिव्याप्तिः, तेनाऽऽकरणमाभवनम्, तस्मिन् स्थानम्, का मर्यादा? अन्यरूपविलक्षणम्, तस्य स्वतन्त्रस्थातृसमवायिनः प्रयोजके हेतु कर्तरि विहितो णिः तस्य भावः स्थापना।
किमुक्तम्भवति ईषत्तिष्ठतः स्थातुरेकण्याधानं स्वयं तिष्ठतोऽसद्भावेन सर्वत्र विशेष्य स्थाप्यमानपरिसमाप्तं स्थानं स्वविशिष्ट आकारेऽभिव्याप्य तिष्ठति, इन्द्रोऽयं न स्कन्द इत्यादिरूपान्तरव्यावृत्त्या मर्यादया नियतश्च, अनिश्चितैकक्रिय
१. संमतितर्कप्रकरणम् कारिका १-६