________________
२५८
द्वादशारनयचक्रे एवञ्च कृत्वा योग्यशब्दनिबन्धना हि विवक्षाऽर्थमनपेक्ष्य सिद्धां तां तां शक्तिमध्यारोपयतीति स त्वदुक्तो ग्रन्थो युक्तोऽस्मिन् दर्शने योग्य एव शब्दोऽर्थस्य, न योग्यः, यः कश्चित् क्रीडितमेवाऽ स्त्विति प्रयुज्यते काकवाशितादिवदबुद्धिपूर्वो वाऽर्थविसंवादादेकी कर्तुमशक्यत्वात्, हिशब्दोऽपि च हेत्वर्थे, यस्माद्योग्यशक्ति... मर्यादया वा, यदपि च स्वलक्षणव्याप्तिप्रदर्शनार्थं लोकगतशब्दार्थसंव्यवहारव्यवस्थापनार्थश्चोक्तं श्लोकद्वयं
'तयोरपृथगात्मत्वे रूढेरव्यभिचारिणि । किश्चिदेव कचिद्रूपं प्राधान्येनावतिष्ठते॥ लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्त्तते।
शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया॥" इति तदपि च अर्थस्यार्थरूपत्वं शब्दादापनमित्येतत्फलमेव ।
वयमत्र निश्चिनुमः तयोरपृथगात्मत्वं रूढेः लोकप्रतीतेः, अतस्य तदुपचारात्, पथिगमनवत् - यथा 'पन्थाः पाटलिपुत्रं गच्छती'ति पथो गमनं पुरुषगत्यभेदोपचारात्, तद्विनाऽभावाद् व्यर्थत्वात्तथोच्यते तथा शब्दार्थयोरव्यभिचारादिति, इतरेतरप्रधानोपसर्जनभावाच्च व्यर्थत्वं सन्मित्रवत्, तत्तु त्वद्वचनादेव सिद्धं यथोक्तं त्वया 'किञ्चिदेव कचिद्रूपं प्राधान्येनावतिष्ठत' इति, तथा 'लोकेऽर्थरूपता मित्येषोऽपि, गामभ्याज शुक्लामिति न शब्दे बुद्धिः, किं तर्हि? अभिधेये लोकसिद्धा, व्याकरणशास्त्रे शब्दरूपतां १. वाक्यपदीयम् काण्डः २ श्लोकौ १३१-१३२