________________
अष्टमोऽरः उभयनियमनयः
२५९ प्रतिपन्नः प्रवर्तते, तुर्विशेषणे, शब्दाधिगमार्थप्रवृत्तिविशेषात् भवतिवत् । तस्माद्भिनः, रूपभेदात् अर्थस्य च गोः सानादिरूपं भिन्नं तदर्थं गकारादिवर्णानुपूर्वीमात्रोच्चारणम्, तद्धि न कदाचिदर्थो भवितुमर्हति कल्पितं वा, त्वया योऽभिजल्पः कल्प्यः कल्पित एव सः, न भवत्यर्थः अव्यवस्थितत्वात्, व्यतिकीर्णत्वात्, अनियतत्वाच्च, तस्मान शब्दोऽर्थरूपतां प्रतिपन्नः प्रवर्तते।
प्रतिपत्तिव्यभिचारादनयोरेकीभावगतिः पार्थक्ये सति, नान्यथोक्तवत्, 'शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया' इत्येतदप्यस्मन्मतमेवानुधावति, 'यस्तु प्रयुक्त कुशलो विशेषे" इत्यादिक्रमेण गोशब्दस्य सानादिमति साधुत्वं सिद्धेऽर्थे शब्दे सम्बन्धे च पृथक् गोण्यादावसाधुत्वं रूढितः, अर्थविशेषविवक्षायां गोण्याः साधुत्वमित्यादि, तस्य च प्रयोजनं धर्म इत्यादिरुक्तः सोऽपि पृथगर्थसिद्धिं सूचयति लोकेनाभिधेयेऽर्थे शब्दाः प्रयुक्ताः, तत्रार्थस्य पृथक् सिद्धत्वे शब्दस्य च तद्विषयस्य धर्मार्थः प्रयोगनियमः शास्त्रेण क्रियते भक्ष्याभक्ष्यनियमवदिति।।
एवमेव च दर्शनोत्प्रेक्षाभ्यामित्यादिदर्शनानि शब्दादहिरर्थसिद्धौ घटन्ते, इतरथा अभिजल्पाथै क्ये तत्र किं दर्शनम्? का उत्प्रेक्षा?
...... कुतोऽभिजल्पः? श्रुत्यन्तप्रवृत्तिहेतुरित्येतदपि च त्वत्कल्पिताभिजल्पे नैवोपपद्यते, अस्मदिष्टे तूपपद्यते श्रुतेरन्या श्रुतिः श्रुत्यन्तरम्, अन्तरेकीभूतोऽभिजल्पपृथग्भूतो ध्वनिर्व्यवहारानुपाती स्यात्, स त्वदिष्टाभ्यामकर्तृभ्यामचेतनाभ्यां करणकर्मभ्यां न १. महाभाष्यम् १-१-१ सूत्रे