________________
अष्टमोऽरः उभयनियमनयः
२५७
ननु विशेषाणामप्यस्ववशत्वानवस्थानात् सामान्यभवनप्राधान्यमेव, दृश्यते हि द्विचनादिः यथैकवचनं द्विचनार्थं नक्षत्रं पुनर्वसू पुष्यः तारा...... हेतुः कर्म, सर्वत्राप्येवमेव च विशेषानवस्थानाद्विशेषो विशेष एव न भवितुमर्हति, ततोऽसौ नैव स्यात्, अविशिष्टत्वात्, अस्ववृत्तित्वात्, अस्ववशत्वात् खपुष्पवत्।
ततश्च सामान्यमपि नैव, प्रवर्तकाभावात्, किमर्थं न प्रवर्त्तयति विशेषः स्ववशत्वात्, स्ववशो हि विशेषः, विविक्तवृत्तित्वात्, मुक्तवत्, असदेव वा प्रवर्तकाभावात् तत् खपुष्पवत्, अर्थान्तराभावात् भवद्भवनाभ्यां केनचिदबाध्यत्वात्, अथ सोऽप्यस्ति भेदेनार्थः शब्दाद्यस्य तद्रूपमनेकं सदेकं क्रियते न तर्हि शब्द एव शब्दार्थोऽभिजल्पत्वमागतो वाच्यः, किं तर्हिो विशिष्टा शक्तिः शब्दादन्या सर्वशक्तिर्वाऽर्थोऽन्यः।
तत एवेदमयुक्तं तं शब्दमभिजल्पं प्रचक्षते शब्दार्थ इति, स हि यथा शब्दस्तथाऽर्थोऽभिसम्बन्धेनैकीक्रियमाणत्वात् पृथक् सिद्धः क्षीरोदकवत्, द्वयोरप्येकीकृतत्वे तुल्यत्वात्, अपि चार्थार्थसेवोक्तं प्राक् प्रत्याय्यत्वादभिजल्पार्थावयववत् शब्दनिरपेक्षा विवक्षाऽध्यारोपार्शक्तिरिति, यदा चैवं तदाऽस्मन्मतं यथार्थाभिधानशब्दत्वमेव प्रतिपन्नमर्थस्य तत्त्वात्, योऽसौ शब्दः सोऽयं नार्थः, अर्थोऽर्थ एव, अस्मात् प्रत्यक्षनिर्देश्यादन्य एवासौ स इति परोक्षनिर्देश्यः, एवंविषय एव शब्दो न शब्दविषयः, किमुक्तं भवति तेनार्यते गम्यते शब्दस्य • विषयः, विषयिणो विषयपरतन्त्रत्वात् याऽर्थस्य गतिः शब्दस्यापि सैव, नात्मनः पृथक्-स्वतन्त्रेति।