________________
२५६
. द्वादशारनयचक्रे
स्वार्थेनैव प्रकल्पिता न शब्देनाप्रधानेन नियता – व्यवस्थिता क्रिया कर्मशेषकादिपरिकल्पना, अभिजल्पशब्दार्थत्वमपि स्वदर्शनरागेणै -वोक्तं नोपपत्त्या, अभिजल्पगत्यर्थाभावात् स च शब्दोऽभिजल्पत्वमागतो वाच्यतां यायात् सोऽयमित्यभिसम्बन्धात् शब्दस्वार्थेन सहकीकरणात्, न च तत्, शब्दस्यैवार्थत्वात्, न हि कश्चित् शब्दादर्थस्य पृथगसिद्धौ करोत्यैक्यमनयोरभेदोपचारसम्बन्धेन।
द्रव्यभवनोपसर्जनत्वादमूर्तस्य मूर्तलक्षणविशेषात्तस्य प्राधान्यं इति स्थिते बाह्ये येन येन विशेषेण भूयते तदुपसर्जनं तन्नाम बाह्यम्, तद्वशप्रवृत्तित्वात्, भृत्यवत्, नाम वचनादिविशेषवशम्, यथार्थाभिधानशब्दत्वात्, तथाऽऽचार्यसिद्धसेन आह – 'यत्र ह्यर्थों वाचं व्यभिचरति नाभिधानं तत्" इति । व्याख्यातारोऽपि प्रस्थिता नामस्थापनाद्रव्यभिन्नलिङ्गवाच्येष्टाकरणाद्भावयुक्तवाची शब्द इति।
वृक्ष इत्यत्र पञ्चकः प्रातिपदिकार्थश्चतुर्थस्त्रिको वा, तथाऽऽख्यातस्यापि, एवमपि वक्तुर्विवक्षापूर्वकत्वात् शब्दप्रवृत्तेः सामस्त्यावगमं परित्यज्य विशेषमेकमेव ब्रूते शब्दः, एकद्विबहुवचनेषु प्राप्तेषु विवक्षितसङ्ग्याभिधाय्येकवचनं विधीयते, एकस्य वचनमेकवचनम्, उच्यतेऽनेनार्थः, कर्मणि षष्ठी, तथा च लोके वृक्षशब्दप्रयोगे सामान्यमुपसर्जनं विशेषः प्रधानमिति गम्यते, एकार्थगतेादिनिवृत्तेः, इतरथा सामान्यप्राधान्यात् सर्वगतिः सन्देहो वा स्यात्, वृक्षे प्रातिपदिक...... भवति।
१. तत्त्वार्थसूत्रे ३५तमसूत्रव्याख्यायां उद्धृतम् ।