________________
अष्टमोऽर: उभयनियमनयः
२५५ साध्यत्वात्, विक्लित्तिस्तण्डुलानां पाकः तद्विषयः कर्ता साध्यते यदा चौदनः प्रतीतो भवति तद्विषयभुजिपच्यादिक्रियासन्देहे किं करोतीति प्रश्ने ओदनस्य प्रसिद्धस्यानूद्यमानस्याव्याख्येयत्वादस्यैव पचेर्भुज्यादि व्यतिरेकेण विधानं पचतीति, तस्यैव पचतेः पूर्वस्य व्याख्याने किं करोतीति पृष्टे पाकं करोतिति पचिना प्रतिवचनात् कर्मत्वमुक्तवत्, देवदत्तस्य व्यापारं विशिष्टं स्थाल्यादिव्यापारेभ्यः सम्भवनधारणादीनां प्रकरणात् तत्प्रयोजकत्वात् स्थाल्याद्यपि पचने वर्त्तत इत्येवमादिभिरन्योन्यव्याख्यानप्रयोगैरेक एवार्थो व्याख्यायते यथा 'वृद्धिरादैच्" इत्यस्य प्रतीतापेक्षव्याख्यानवत्।
एवं सर्वत्र पाकः साध्यरूपतायामेव व्यवस्थितः साधनमाकाश्तीति तस्मिन्नेव काले कर्मत्वं शेषत्वश्च भजते, शेषस्याकारकविवक्षणात्, तस्मादविरुद्धा क्रियादिपरिकल्पना अर्थशक्तिविषयैव, न शब्दोत्थापिता, अस्माद्बाहानुरूपोपसंहाराभावादसम्यक्प्रत्यपेक्षितस्वार्थं वचस्त्वदीयमेवम्, तस्माच्छब्दस्याप्रधानत्वात् कुतोऽस्य कल्पनाशक्तिः? अत इत्थं कारिकापठितव्या
'शक्तेर्वा सर्वशक्तेर्वा, स्वार्थेनैव प्रकल्पिता। नाप्रधानेन नियता क्रियादिपरिकल्पना ॥ इति।
विशेषाः शक्तय एवोपसर्जनीभूतसामान्याः, तदर्थो हि शब्द प्रयोगः, यथार्थाभिधानश्च शब्द' इत्यस्मन्मतम्, सर्वशक्तेर्वा उक्तवदेकस्यैवार्थस्याविरुद्धशक्तिविशेषस्यानेकशक्त्यात्मकस्य वा, १ पाणिनि १-१-१ २. त.भा. १०-३५