________________
अष्टमोऽरः उभयनियमनयः
२५३ आधारभूतम्, योग्यशब्दाच्च बाह्यार्थसिद्धिः, योग्यानुरूपः शब्दः केनचिदर्थेन युज्यते, तस्मादत्सिद्धात् पश्चाद्भवति शब्दः, यथारूपं तथा हि स योग्यः, अर्थनिबन्धना हि विवक्षा, इतरथा वचनस्य प्रवृत्त्यसम्भवात्, न हि शब्दोऽनामृष्टप्रत्याय्यप्रत्यायकभावो वक्तुमिष्यते, नच विवक्षामात्रेण, शब्दार्थस्य च शक्तिः शकनात्, शक्नोति वक्तुंशब्दः, शक्यते वक्तुमर्थ इति।
एवञ्चानेन त्वद्वचनेन पलायमानस्यापि ते बाह्यवस्तुसद्भावोऽनतिक्रमणीयः प्रतिपाद्यते बलात्, अतः स्त्रीपुंनपुंसकैकद्विबहुत्वकर्तादिविशेषलक्षणाः शक्तयः परिगृहीता एव त्वया, अस्मन्मतवदेव च विशेषणस्वरूपप्रवृत्त्या विना न कश्चिच्छक्तिमानन्यः किन्तु विशेषा एव विशेषेणास्मदभीष्टाः इक्तिय इति यद्युच्यते त्वया, उच्यतां को वारयति? ताश्च स्वार्थसत्यः शक्तयो विशेषरूपेण विशेषा एव, तासाश्च तेषु तेषु प्रवृत्तिवस्तुषु स्त्रीत्वादिषु विवक्षैव व्यञ्जिका।
सैव तां तां शक्तिमर्थगतशब्दमनपेक्ष्य सिद्धामध्यारोपयति प्रागात्मनि, पश्चात् प्रयोगात् श्रोतृबुद्धौ, वक्त्रभिप्रायार्थग्रहणप्रयतनात्, अत्र प्रयोगः शब्दनिरपेक्षैव विवक्षाध्यारोप्या शक्तिरर्थः, प्रत्याय्यत्वात्, यः प्रत्याय्यः शब्दनिरपेक्ष एव सिद्धः, अभिजल्पार्थावियववत्, यथा त्वत्प्रयुक्तस्याभिजल्पशब्दस्याभिधेयोऽर्थः समुदायः स च प्रत्याय्योऽवयवार्थाभ्यां समुदायार्थप्रतिपत्तेरवयवार्थः प्रतिपत्तिपूर्वकत्वात्, मा भूद्विवक्षाप्रयोगयोरानर्थक्यमिति तावदभ्युपगन्तव्यौ खपुष्पवैलक्षण्येन शब्दनिरपेक्षौ शक्त्याख्यौ त्वया,