________________
२५२
द्वादशारनयचक्रे
इहैकमेवार्थवस्तु एकस्यां पचनावस्थायामेकस्मिन् मुहूर्तादौ काले बहुभिर्वक्तृभिर्युगपदेकेन वा पर्यायेण वक्त्रोच्येत विरुद्धैर्धमः, तद्यथा - ओदनं पचति, पाकओदनस्य, पाकं निवर्तयति, करोति निर्वृत्तिं पाकस्य । तत्र यदि अर्थवस्तु शब्देनोच्येत तर्हि विरोधात् कथमोदनस्यैकस्य युगपत् क्रमेण वा कर्मत्वं सम्बन्धित्वं पाकं निर्वर्त्तयति पाकस्य निर्वृत्तिं करोतीति कर्मत्वं शेषरूपत्वं च पाकस्य? तस्मादविद्यमाना वा शब्दस्यैव शक्तयः बुद्धया बाह्यार्थनिरपेक्षं समध्यारोप्यन्ते सर्वशक्तियोगे वाऽर्थार्थत्वाच्छब्दप्रयोगस्य शब्दः प्रतिनियतमेवार्थ प्रकाशयति, तत्राशक्तिपक्षे वस्तुगता शक्तिः अप्रयोजिका शब्दप्रयोगस्य, खपुष्पवदसत्त्वात्, न ह्यस्यावस्तुविषयाभ्यां सन्निधानासन्निधानाभ्यां किश्चिदपि प्रयोजनमस्ति प्रयोजने सति प्रयोगः स्यात्, तस्यामसत्यामपि बाह्यार्थशक्तौ मत्पक्षे सम्भवत्येव शब्दप्रयोगः, योग्यशब्दनिबन्धना हि विवक्षा अनपेक्ष्यार्थगतशब्दं बुद्धौ शक्तिमध्यारोपयति।
सर्वशक्तिपक्षे तु मम विशेषणव्यवस्थितां कुतश्विदनादेयां अव्यतिकीर्णामनन्यशब्दवाच्यां तां तां शक्तिमुपादाय स्वविषयनियताः शब्दाः प्रयुज्यन्ते प्रयोगसाफल्यमस्तीति, तस्मादुभयोरपि पक्षयोः शब्दप्रयोगसाफल्यं सम्भवतीति। ___अत्र वयं ब्रूमः, इदमप्यस्मदभिप्रायसाधनफलम्, योग्यशब्दनिवन्धना हि विवक्षाऽनपेक्ष्यार्थगतशब्दं बुद्धौ शक्तिमध्यारोपयतीति, तत्र वस्तु तावदनेन त्वद्वचनेनैव शब्दादन्यत् सिद्धम्, तच्च तदिदंसम्बन्धात्मकशब्दार्थयोः शब्दशक्तिबुद्धिविवक्षाख्यस्यार्थस्य