________________
अष्टमोऽरः उभयनियमनयः
२५१
विरोधायुक्तेः, विज्ञानमपि तद्विषयमयुक्तम्, इत्यादिवचनखेदोऽयमकस्मात् क्रियते त्वया, अभिजल्पो हि शब्दार्थः, स च शब्दएव, न लिङ्गादिविचारखेदेनार्थोऽसद्विषयत्वात्, खपुष्पविषयविचारखेदवत्,
'सोऽयमित्यभिसम्बन्धात् रूपमेकीकृतं यदा। शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥ तयोरपृथगात्मत्वे रूढेरव्यभिचारिणि। किश्चिदेव कचिद्रूपं प्राधान्येनावतिष्ठते ॥ लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्त्तते।
शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥" दर्शनोत्प्रेक्षाभ्यामर्थमभिधेयत्वेनोपगृह्य तत्र न्यग्भूतस्वशक्तिद्धौ परिप्लवमानोऽयमित्थमनेन शब्देनोच्यत इत्यान्तरो विज्ञानलक्षणः शब्दात्मा श्रुत्यन्तरस्य बाह्यस्य ध्वन्यात्मकस्य प्रवृत्तौ हेतुः, सोऽभिजल्पाभिधेयाकारपरिग्राही बाह्याच्छन्दादन्य इति भर्तृहर्यादिमतम्।
वसुरातस्य भर्तृहयुपाध्यायस्य मतन्तु स च स्वरूपानुगतार्थ रूपमन्तरविभागेन सनिवेशयति,
'अशक्तेः सर्वशक्तेर्वा शब्दैरेव प्रकल्पिता।
एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥२ १. वाक्यपदीयम् काण्डः २ श्लोकाः १३०-३२ २. तत्रैव, श्लोकः १३३
-