SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४६ द्वादशारनयचक्रे लक्षणं हि नाम प्रकृतिप्रत्ययादिविभागान्वाख्यानम्, तद्धि लक्ष्यान् शब्दान् व्यवस्थापयामीति, तेषाश्चाव्यवस्था, प्रकृत्याद्यर्था यथार्थत्वात्, कुतस्तदन्यलक्षणत्वे प्रतिपत्तिः शब्दव्यवस्था च? अविभक्तभावितस्वलक्षणविषयत्वात्, अविभक्तभांवितस्वलक्षणविषयस्थाणुपुरुषप्रतिपत्तिव्यवस्थावत्, तथा लक्ष्याप्रतिपत्त्यव्यवस्थाभ्यामभिधानाभिधेयविषयप्रत्ययद्वयविसंवादः । स वृक्ष आस्त इति पुरुषविषयप्रकृतिप्रत्ययसंवादेन स्वयं प्रतिपद्य पुनरेहि मन्य इति तद्विपरीतप्रतिपत्त्या प्रकृत्यादिलक्षणालक्षणीकरणं प्रतिपत्तेश्च तद्वदेवाप्रतिपत्तित्वम्, यदृच्छाप्रतिपत्तित्वात्। अत्र प्रयोगः - ‘एहि मन्ये रथेन यास्यसि न हि यास्यसि यातस्ते पिते'त्यादिवाक्यमयथार्थमगमकमसाधु प्रस्तुतक्रियासामानाधिकरण्यविसंवादात् 'त्वं यामि, अहं यासी'ति प्रयोगवत् प्रस्तुत प्रत्ययविसंवादाद्वा, 'देवदत्तो भूयत' इति यथा, अङ्गीकृतपुरुषार्थवैयधिकरण्यवृत्तत्वात्, 'त्वं पचती'ति यथा। अत्र प्रत्ययपरप्रकृतिनियमात् प्रयोगकाले केवलयोः प्रकृतिप्रत्ययोरसम्भवः, तथाऽनर्थकत्वम्, भूलतिप्शबादीनाम्, काकवासितवत्, शिक्षणार्थ तु चित्रभक्तिबिन्दुविन्यसनवत् प्रकृतिप्रत्ययार्थोपदर्शनं पृथक् क्रियते, अपृथसिद्धंसमुदायाथप्रतिपत्त्युपायत्वात्, एवमेव कृत्वोक्तम् – 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः तयोः प्रत्ययार्थः प्रधानम्" इति, अत एव च 'प्रकृतिपर एव १ महाभाष्यम् ३-१-६७
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy