________________
अष्टमोऽरः उभयनियमनयः
२४५
तथाऽऽकाशघटयोरनावृत्त्यावृत्त्यात्मकयोरावृत्त्यनावृत्त्यात्मकघटाकाशभवने घटाकाशमिति स्यात् तत्तु त्वन्मतेनाकाशमेवामूर्तं तद्विपरीतो घट इति कुतो घटाकाशमुदाहरणं घटते? एवं द्रव्यस्य भवने दृष्टान्तस्य विपर्ययसाधनत्वात् कुतः साऽन्योऽन्यानुगमरूपता? द्रव्यस्य सदा रूपापरित्यागात्।
अन्यरूपानुगमात्तु चेतनाचेतनयोरात्मभावत्यागा व्यस्य सामान्यभवनमुपसर्जनीकृत्य भवदेव च भवति तस्मात् केनचिदविशेषः, तदसत्त्वात् सामान्यासत्त्वमापन्नम्, तथाच विशिष्टे स्वविषयेऽप्येकवृक्षादिभवने द्विचनादिविशेषान्तरनिरपेक्षेणैव तेन भवितव्यम्, न पुनस्तथा भवति सः, नक्षत्रपुनर्वस्वादिसमानाधिकरणवचनलिङ्गादिभेददर्शनात् । ____ यद्येकं न तर्हि द्वयादि, यदि ब्यादि नैकम्, विरोधित्वादेकत्वद्वित्वयोरित्यादि सर्वं यथा विषयं प्रतिविधातव्यम्, घटपटादिवदन्योऽन्यस्वरूपापत्तिर्नास्ति विशेषाणां सामान्यात्, दृष्टा च नक्षत्रपुनर्वस्वादिषु, प्रतीतेस्तादर्थ्यमेवेति चेन, प्रत्यवयवप्रतीतेरेव वयमपि ब्रूमः 'येकयोर्दिवचनैकवचने, बहुषु बहुवचनम्" इति, ययेकवचनान्तः शब्दः अभिधानार्थेनाप्येकेन भवितव्यम्, न व्यादिना, अथ व्यादिः नैकवचनेन शब्देन भवितव्यमुक्तवत्, इदन्त्वभिधानाभिधेयप्रत्यययोर्विसंवादात् प्रतीतिविरुद्धम्, कुमारब्रह्मचारिपितृत्ववत्। १. पाणिनि १-४-२१,२२