________________
द्वादशारनयचक्रे
अथोच्येत सामान्यमविशेषः तद्भवनमात्रम्, उभयोः परस्परकारणत्वाविशेषत्वादित्यत्रोत्तरम्, अथ कस्मात् उपयोग एव नामत्वमापद्यते? उपयोगत्वप्राप्तेर्नाम्नः सर्वत्र विशेष प्रधानत्वम्, तस्यापि वा नामशब्दस्य उरःप्रभृति द्रव्यमिति नामद्रव्यार्थं हित्वा द्रव्यद्रव्यार्थोऽङ्गीकृतः, ततो मूर्त्तद्रव्यकारणत्वाभ्युपगमः ते विरोधाय आपद्यते, मूर्त्तममूर्त्तस्य हि द्रव्यं न भवति नामशब्दो मूर्त्तः कुड्यादि प्रतिहतगतित्वात् यथा लोष्टादि, तन्नाम नोपयोगस्य द्रव्यम्, मूर्त्तत्वात्, मृद्वत्, वैधर्म्येणाकाशवत्, उक्तं हि
२४४
न हि मूर्त्तममूर्त्तत्वं नामूर्त्तं याति मूर्त्तताम् । द्रव्यं त्रिष्वपि कालेषु नात्मभावं जहाति हि ॥
नन्वन्योन्यानुगतस्वरूपत्वात् निर्वृत्त्युपकरणेन्द्रियज्ञानतन्वात्मद्रव्यवत् घटाकाशवच्च, द्रव्यं कारणं ज्ञानस्य द्रव्येन्द्रियं मूर्त्तममूर्त्तस्य ज्ञानस्य द्रव्यं शरीरादि कारणं भवान्तरात्मनः, घटश्व
घटाकाशस्य ।
आगतं तर्ह्येतद्योऽर्थो द्रव्यं विशेषो वा योऽस्तु सोsस्तु सर्वथाऽसावस्वतन्त्रो विशेषेण ज्ञानेन तथा तथा भाव्यते सर्वात्मनेति प्रधानं विशेष एव भवतीति तत्र यदि सेन्द्रियाणि ज्ञानानि तानीन्द्रियकृतत्वादज्ञानानि स्युः, केवलमेवैकं ज्ञानं स्यात्, आत्मानश्च चेतनत्वात्, स्वतन्त्राः यदि तच्छरीरं स्वतन्त्रश्च कर्त्ता, ततश्वाशरीरेण शुद्धेन सिद्धकेवलिना कृतं कर्मान्वेष्यं स्यात्, अनिष्टं च न रागिकृतम्, इष्टमपि स्यात्, आत्मनोऽनन्यत्वात्,