________________
अष्टमोऽर: उभयनियमनयः
२४३
-
रूपणाद्रूपम्, रस्यत इति रसः प्रायत इति गन्धः श्रोत्रग्रहणं शब्द इति लक्षणात् रूपादिरपि शब्दो भवति, तस्मानामद्रव्यस्यानुपसर्जनतैव।
अस्यापि नियमः, प्राधान्येन तु विशेषो नियत इत्युक्तः, अर्थार्थत्वाच्छब्दप्रयोगस्यार्थः प्रधानं न शब्दः, अर्थस्यापि ज्ञानोत्पत्तिनिमित्तत्वात् ज्ञानमेव प्रधानम्, न च ज्ञानशब्दयोरैक्यम्, प्रत्यक्षप्रतीतिविरोधाभ्याम्, प्रत्यक्षमेव हि न नाम्रो घटादिर्भवति, ततस्तु श्रोत्राभिघात एवोत्पद्यते।
तथा च यदि शब्दस्य घटोत्पत्तौ द्रव्यत्वं स्यात्ततो घटार्थिनो भवतु घट इति प्रब्रवीरन्, अरिविनाशार्थिनश्च राजानः परवलमेति मा भूदिति वा ब्रूयुः, तस्मात् प्रवृत्तिनिवृत्तिकारणमार्थिनाश्च क्षायोपशमिको भावः, सोऽपि द्रव्यार्थतां हित्वा भवति, क्षणिकत्वात्, तेनापि विशेषेणैव भूयते, उक्ता शब्दार्थ व्युत्पत्तिर्वस्त्वर्थश्व, स हि भावागमः, ततः उत्थाप्यते शब्दः, तस्माच्छन्दो द्रव्यागमः, तथा ह्याहुः 'आगमतो जाणए अणुवउत्ते दव्वसुतं" इति।
___तत एव हि चास्योत्पत्तिः, प्रवृत्तोऽपि शब्दः परतन्त्रः, ज्ञानार्थत्वाच्छ्रोतरि प्रवृत्तेच, तादर्थेन ज्ञानं प्रधानं शिविकावाहकयानेश्वरयानवत् अतस्त्वदुक्तिवत् उपयोगविशेषभवनं प्रधानम्, तत्कार्यत्वाच्छब्दस्य।
१. अनुयोगद्वारसूत्रम् ३२