________________
२४२
द्वादशारनपचने
अन्तर्निविष्टशब्दानुविद्धचैतन्यनिमित्तः संज्ञाव्यवहारोऽभ्युपगतो न बहिर्निमित्तं प्रत्यक्षम्।
निमित्तप्रत्ययेन संज्ञाप्रवृत्तेश्च यावत् सम्भवं संज्ञासन्निवेशे सर्वव्यपदेशभाक्त्वात् भावकादयोऽपि ते प्राप्ताः, तथा च यावत् किश्चित् भवननिमित्तग्रस्तं तस्य सर्वस्येन्द्रस्कन्दादिरर्थः, तद्वाचिनश्च पर्यायशब्दा एव, घटकुटशब्दवत्, एवं तावत्सर्वसर्वत्वमविशेषात्।
विशेषतोऽपि सम्भवघटनादिस्कन्दनादित्वाच्च सर्वसर्वत्वम्, कतमद्रव्यं कतमेन निमित्तेन नाभिधीयते?
एवमपि तु स्थिते सर्वसर्वाभिधानलक्षणाव्यवस्थाव्यावर्त्तनार्थं बहिनिमित्तनिरपेक्ष संज्ञामात्रसन्निवेशिनियतार्थाभिधायिस्कन्दादित्वमभ्युपगन्तव्यम्, एवं हि सङ्केतमात्रत्वाच्छब्दार्थसम्बन्धस्य मुख्यार्थाः सर्वदेशभाषा इत्येतदयनसिद्धम्, नियतनिरपेक्षत्वात् सङ्केतस्य, स्वोपयोगप्रतिपादनसमर्थत्वाच्च शब्दानाम्, डित्यादिवत्, अत एवेदमप्यभियुक्तानां स्मरणमुपपन्नं 'अनेकार्था धातवः' इति .... दृश्यतामिति।
चेतनाचेतनभेदस्यास्य जगतो भावकं नाम, तस्मादेव घटो भवति, घटस्य द्रव्यं कारणम्, घटं भावयति नाम, घटस्य ततो भवनात् यद्यतो भवति तत्तस्य कारणं दृष्टम्, यथा मृत्, अनया यथा घटस्तथा नामा, घटक्रियात्मकत्वं वा भावकत्वम्, तस्माद् घटं भावयति नाम, रूपाद्युपयोगभवनं वाऽन्तर्निविष्टशब्दानुबद्धम्,