SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽरः उभयनियमनयः २४१ ___ अतो यथैव कुम्भकारकरणशब्दचेतनावैचित्र्यवृत्तितारतम्याध्यासनसमुपहितरूपा घटता नामःसाक्षाद्भवति तथा तथा तत्प्रभवमेव कुम्भकारमनुष्यशरीरं मृदादि च, शब्दोपयोगसम्बन्धात् योगवक्रताविसंवादनादेः, रूपादिमदर्थविरचनात्मकत्वात् कुम्भकार -कार्यवत्, यथा हि घटपिठरादिकुलालकार्यं तेन तेन मृन्मर्दनादिप्रकारेणान्तःसनिविष्टशब्दानुविद्धकुम्भकारप्रवृत्त्या निर्वर्तितत्वात् तत्प्रभवं तदात्मकं रूपादिमदर्थविरचनात्मकत्वात् तथा कुम्भकारशरीरमृदाद्यपि। नाम एव च प्रभावात् तत्प्रेरितप्रयत्नपरिस्पन्दजनितनिष्पत्तिवस्तुनो वस्तुत्वं लभ्यते न बहिर्निमित्तापेक्षम्, तत्प्रवृत्तीनामपि स्थाने स्थाने शब्दचेतननियोजितानामात्मलाभात्तदात्मत्वम्, इतरथा स्वरूपप्रवृत्तिरेव दुर्लभा, कुतो वस्तुत्वम्? तस्मात् सर्वकारकसानिध्येऽपि कर्तुरौदासीन्ये तदभावे वा क्रियायाः कार्यस्य चाभावाच्छब्दप्रभावप्रभवं सकलं जगत्, तथा हि स्कन्दरुद्रेन्द्राः स्कन्दनरोदने -न्दननिमित्तानुपपत्तावपि जीवस्याजीवस्य वा निमित्तनिरपेक्षाः संज्ञाः क्रियन्ते। ___“प्रत्यक्षत्वात् गोपालादय एव तद्भूता मुख्यया वृत्त्योच्यन्ते, ते तु भवकार्तिकेयादयः समयान्तप्रसिद्धशब्दपरिकल्पगम्या न सर्वलोकप्रसिद्धशब्दाभिधेयाः, तस्मात्त एव तेषु प्रत्यक्षाः, येऽपि च ते स्कन्दादयस्तेष्वेकस्मिनितरयोरपि संज्ञयोः प्रवृत्तिनिमित्तसद्भावात् . त्रयोऽपि परस्परसंज्ञानिर्देश्याः सङ्कीर्णाः स्युः, अन्यतमनिमित्तमात्रतत्त्वयाऽवधृतया संज्ञया विवक्षितेष्टार्थव्यवहरणात्तु
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy