________________
२४०
द्वादशारनयचक्रे
कारणं सम्भाव्येत? यदस्तु तदस्तु कार्यं कारणञ्च सर्वथा चैतन्यरहितस्य मूर्तद्रव्यस्य मूर्तिरहितस्यापि वा चेतनस्य कारणत्वा -सम्भवान्मूर्तचैतन्यात्मकः कुम्भकारः, सर्वमपि चैतन्नामैव ।
कुम्भकारोह्यात्मा तत्सन्निविष्टशब्दानुविद्धचैतन्यस्व रूपत्वात् शब्दात्मकः, तदनुरूपान्तःशब्दानुविद्धचैतन्यप्रेरितपिण्डशिवकायनु -क्रमप्रवृत्तयोऽपि तदात्मिकाः, तत्प्रवृत्तित्वात्, मृत्प्रवृत्त्यात्मकघटवत्, तद्भावे तद्भावात्, तदभावे न प्रवर्तते, तन्तुवायवत्।
न हि काचिदपि चेतना अशब्दाऽस्ति, अनादिकालप्रवृत्तशब्दव्यवहाराभ्यासवासितत्वाद्विज्ञानस्य, चैतन्यमेव हि पश्यन्त्यवस्था मध्यमावैखोरवस्थयोरुत्थाने कारणं नामेत्युच्यते, कारणात्मकत्वात् कार्याणाम्, यथोक्तं, 'वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम्" इत्यादि।
येऽप्यव्यक्तचेतना जङ्गमाः स्थावराश्च तेऽपि शब्दाभ्यासवासना जनितान्तर्निविष्टस्वानुरूपचैतन्याः, हिताहित्प्रवृत्तिव्यावृत्तिवृत्तत्वात्, कुम्भकारवत्।
भगवदईदाज्ञापि तथोपभ्रूयते- 'सव्वजीवाणं पि य गं अक्खरस्स अणंतभागो निचुग्याडिओ इत्यादि।
१. वाक्यपदीयम् काण्डः १ श्लोकः १४३ २. नंदी सूत्रम् ५१