SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽरः उभयनियमनयः २३९ घटः कर्ता तेन का भवित्रा भूयते, स एव भवतीति भवति, न भवनेन क; भूयते, उपसर्जनत्वात्, तेन भवनेन भूयते चेत् खपुष्पमपि भवेत्, यद्यभवद्भवेत्, खपुष्पमपि भवेत्, भवनस्य द्रव्यत्वापत्तेः। ___ ननु भवनमविशेषं सामान्यमानं कचिदपि भवद् दृष्टम्, विशेषेण तु भवित्रा वशीकृतं दृष्टम्, सत्यमेतत्, वयमपि न बमो भवनं नास्त्येवेति, विशेषप्रधानं स्वोपसर्जनं तु दृष्टमिति। क्रियाघटब्रीहिदेवदत्तादौ कारकरूपादिमूलादिवालादिभेदं भवनसामान्यं भेदप्रधानं दृश्यते लोके विशेषेणेत्युभयं नियम्यते सामान्यमुपसर्जनमेव विशेष एव प्रधानमिति, न यथा पूर्वत्र, इह स्वरूपं घटो विशेषो न पटायभावः, स एव प्रधानं भावः, सामान्य क्रियाभवनं प्रकृत्यर्थ उपसर्जनमप्रधानम्, शिविकावाहकयानेश्वरयानवदिति विशेषभवनमेव भावभवनमिति पर्यायनयभेदोऽयं सर्वद्रव्यार्थभवनप्रतिपक्षभूतः। तत्र नामद्रव्यार्थभवनं तावत्--स्वरूपतो नमयति प्रहीकरोति सर्वमात्मस्वभावेनेति नाम कारणं द्रव्यं तदेव कार्यं नासत्, भवनात्मकत्वात्, स हि शब्दो भवनात्मकः, भवनान्यवस्था विशेषाः, स्वप्नादिवत् पुरुषस्य बालादिवद्वा, पिण्डादिरूपादिवद्वा घटस्य। घटस्य हि कुम्भकारचेतना कारणं, नामूर्तात्मा, ततः किं कुम्भकारशरीरं कर्तृत्वात् मूर्तत्वात् मृदायात्मकत्वाद्धटस्य मूर्तस्य
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy