________________
२४७
अष्टमोऽरः उभयनियमनयः प्रत्ययः प्रयोक्तव्यः, प्रत्ययपरैव प्रकृतिः" इति । एवञ्च प्रत्ययार्थ नापैति प्रकृतिः, तत्परत्वात्, अत एव च मन्यतेः एहिशब्दप्रयोग प्रस्तुतसामानाधिकरण्यत्यागेनास्मत्समानाधिकरणोत्तमैकवचनप्रत्ययोऽयथार्थाभिधानम्।
प्रत्ययपुरुषायथार्थत्वेऽप्येषैव भावना इत्यर्थत्रयविषयमयथार्थत्वम्, इदश्च द्रव्यतः, तथा घटपटादिशेषोपपदविषयो भिन्नव्यवहारो निराक्रियते।
प्रहासादिदमसत्यमेवेति चेत्, बढेव तर्हि लक्षणालक्षणीकरणं लक्ष्यालक्ष्यीकरणं प्रतिपत्तेवाप्रतिपत्तित्वम्, सर्वस्यासत्यत्वात्, तदसत्यत्वं प्रत्याय्यार्थविपर्ययवृत्तत्वात् प्रहासोक्तिवत्, पर्वताधिकरणकर्मवचनासत्यमतिश्च, इह पर्वते वसतीत्येतस्मिन्नधिकरणार्थे पर्वतमधिवसति अध्यास्त इत्यादिकर्मत्वायुक्तः, 'आधारोऽधिकरणम् ............. अन्यस्यानाधारत्वाद्वा, एतच्च क्षेत्रतः, कालतच 'अग्निष्टोमयाजी पुत्रोऽस्य जनिते'ति 'भूतमनागतमिति च विरुद्धार्थम्, 'शतभिषजो नक्षत्रं गोदौ ग्रामः पुनर्वसू पञ्चतारकाः देवमनुष्या उभौ राशी', इत्यादिषु भावतोऽयथार्थता । एवञ्च न वाचकता शब्दस्य, न वाच्यताऽर्थस्य, द्रव्यक्षेत्रकालभावविषयविसंवादवृत्तत्वात्, स्वोक्तार्थनिराकरणार्थत्वात्, उन्मत्तप्रलापवत्।
ननु पुष्यस्य देवविशेषविषयनक्षत्रतारासामान्यार्थत्वात् घटविशेषविषयमृत्सामान्यार्थवत्सामानाधिकरण्यमुपपन्नम्, उक्तं हि १. महाभाष्यम् ३-१-२ २. पाणिनि १-४-४५