________________
२३६
द्वादशारनयचक्रे
प्राप्यकर्मक्रियास्वपि च कासुचित्, कासुचित्तु हिमवदादित्यश्रयणदर्शनादिषु नैषा वार्ता, कृतदग्धगतादिशब्दैश्वोक्तानां क्रियाणां कृतत्वानुपपत्तेः सुतरां प्रयोगाभावः, एवं तावद्युत्पन्नशब्दानां क्रियावाचिनां नाम्नां शुक्लादिगुणशब्दानाञ्च निर्विषयता, द्रव्यशब्देष्वपि उक्तन्यायेन तदसंस्पर्शात् कुतः तत्त्वोपनिपातिवचनम्?
भूक्षेपादिवत्त्वभिधेयाभिमतार्थपर्यायमात्रपरमार्थत्वात्तदर्थप्रतिपत्त्युपायः शब्दः।
अत्र च अपोहः शब्दार्थः, यस्मादाह – 'शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्ते" इति, प्रतिभा च वाक्यार्थः।
अयं पुनर्नयः ऋजुसूत्रदेशत्वात् पर्यायास्तिकः, ऋजु-प्रगुणं सूत्रयति तन्त्रयत इति ऋजुसूत्रः, सूत्रपातवजुसूत्र इति वा परि समन्तात् अयति गच्छतीति पर्यायः, स एवास्तीति मतिर्यस्य स पर्यायास्तिकः।
उपनिबन्धनमप्यस्य ‘आता भंते! परमाणु पोग्गले णो आता? गोयमा! सिआ आता परमाणुपोग्गला, सिआ णो आता, से केणटेणं भंते! एवं वुच्चइ-सिआ आता सिआ नो आता? गोयमा! अप्पणो आदितु आता, परस्स आदिठे णो आता इति।
इति सप्तमोऽरः उभयोभयभङ्गः समाप्तः।
२. भगवतीसूत्रम् श. १२-उ.१०-सू. १६-२४