SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ अष्टमः उभयनियमारः भावाभावभावनायां भावो विधिरभावो विशेषः, स च पराभाव इष्टो न स्वरूपस्यैव विशेष इति तदभावे स्वत्वं परत्वं चाव्यवस्थितं परस्वाभावविशेषतुल्यत्वात्, सति च स्वपरविशेषत्वाभावे भावाभावयोर्भेदेनोपनिपातो न स्यात्, स्वतोऽप्यसत्त्वं स्यात् । किश्चान्यत् – किमेतौ भावाभावौ द्वावपि प्रधानौ? भावः प्रधानं विशेष उपसर्जनम्? विशेषः प्रधानं भाव उपसर्जनम्? उभयमुपसर्जनं? वेति। तत्र तावद्यदि द्वावपि प्रधानं ततोऽङ्गाङ्गिभावो न स्यात्, परस्परानपेक्षत्वात् तयोः, परस्परानपेक्षत्वं अपरार्थत्वात्, अपरार्थत्वं प्रधानत्वात्, विजिगीषुवत्, ततो विरोधादेकत्र प्रवृत्त्यभावाद्वस्तु भावाभावात्मकं न भवति, कथं तर्हि भवतीति चेत् घटः स्वेनैव भवति, न पटादिभावेन नाभावेन वा, उक्तसङ्करविशेषासत्त्वदोषभयात्, पटोऽप्येवमेव।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy