________________
सप्तमोऽरः विधिनियमोभयनयः
२३५
देशस्यापि भस्मीकरणानुपपत्तेः, अथाकाशव्यतिरेकेण पलालमेव दह्यत इति तदपि न, विप्रत्ययान्तेन भस्मीकरणेनान्यो दाहो वर्त्ततेऽन्यच्च पलालमिति भिन्नार्थत्ववोधात्, अथाप्येकत्वं पलालस्येष्यते ततस्तस्य दाह्यता नास्ति भस्मत्वाभूतेः, तथा घटो भिद्यते इति न घटते कालभेदात् यदि तद्भिद्यत एव तर्हि भिन्नावस्थस्य घटस्य भिदानुपपत्तिः पूर्ववत्।
क्षेत्रतः शून्यं ...... तिष्ठति गच्छति ...... भावतोऽसंयतः प्रव्रजति कथं घटते? एवमेव भव्यः सिद्धयतीति, कुम्भं करोतीत्यादावप्याह निर्वृत्त्युत्तरकाले च कृतः कुम्भ इति न तथा घटते, यदि स कुम्भ एवानिवृत्तोऽपि न क्रियते, भूतत्वात्, अन्त्यमृद्वत्, अथाभूतः, न क्रियते सः, अभूतत्वात्, खपुष्पवत्, कथमसत् कुम्भ उच्यते वा, अथोच्येत सत्यं प्रागभूत इदानी क्रियते, क्रियमाणश्च भवतीति, न, भूताभूतविकल्पद्वयानतिवृत्तेः क्रियाऽभावः, न कस्याश्चिदप्यवस्थायां कुम्भो जायत इति का क्रिया? क्रियमाणमेव हि क्रियते मृदाहरणादि।
कथं तर्हि सोऽक्रियमाणः कुम्भो जातः? को वा ब्रवीति जात इति, अहन्तु लोकमेवायुक्तवादिनं मन्ये द्रव्यादितो जन्म विनाशसमत्वात् भावाभावभाव एव वस्तु, स भावाभावात्मकोऽर्थो न जायत इति किं शक्यो वक्तुम्? ओमित्युच्यते, विनश्यत्वात्, पूर्ववत्, न विनश्यतीत्यपि शक्यं वक्तुम्, जायमानत्वात्, उत्तरवत्, निर्वर्त्यविकार्यकर्मिकासु सर्वासु क्रियास्वेषैव वार्ता।