SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २३४ . द्वादशारनयचक्रे स्वरूपत्वात् धृत्यादिवृत्तजगदवस्थावत्, यथा नित्यत्वे पृथिव्यादीनां व्यवस्थितत्वं परस्परोपकारित्वञ्च धृतिसङ्ग्रहपक्तिव्यूहावकाशदानक्रियाभिः सिद्धमेव, अनित्यत्वेऽप्यर्थभवनाविच्छेदात् स्वत्वपरत्वाभ्यां परस्परावबद्धव्यवस्थितोपकारिस्वरूपत्वानानवस्था तथा भावाभावयोरिति। यदि तु नैवं तर्हि पटस्याभावे भाव एव त्वदिष्टविधात्यापद्यते, अभावतुल्यत्वात्, पटवत्, यदि च घटस्य भावः पटस्यापि भावः, भावतुल्यत्वात्, एवमन्तरितद्रव्यत्वसत्त्वादिगुणत्वादिसामान्य विशेषाभ्यां भावाभावात्मकता, ननु तस्य साक्षादेव भवनमभवनमुभयतः, तथा तद्विपर्ययेण, नन्वत एवैवं घटो गुणत्वेन पटद्रव्यादित्वेन च साक्षान भवति घटद्रव्यत्वेन भवति, पटः पटद्रव्यत्वेन साक्षाद्भवति, न भवति गुणत्वेन घटद्रव्यादित्वेन च। यदि त्वसौ पटत्वद्रव्यत्वाभ्यां न भवेत् न पटो भवेत्, पटत्वद्रव्यत्वाभ्यामभवनात्, घटवद्गुणवद्वा, यतस्तु पटः इतराभ्यां न भवति तत एवेतरो न भवति यतश्च पटः भवति तत एवेतराभ्यां भवति, अवश्यश्चैतदेवम्, अन्वयव्यतिरेकाभ्यामर्थस्यावधारणे प्रयोगस्य साफल्यात्, नीलोत्पलादिवत्, ........ अतस्त्वन्यथा सतोऽप्यभाव एव स्यात् खपुष्पवत्। कालतोऽपि चैकमेव भूतमभूतञ्च, कालाभेदात्, अतीतानागताभ्यामसंमृष्टतत्त्वा मृत् शिवकादिना वर्तमानैककाला न तथा यथा लोको वदति पलालमग्निर्दहतीति, यदि तदह्यत एव तर्हि भिन्नावस्थस्य पलालस्य पूर्ववद् भस्मीकरणानुपपत्तेः, अन्तर्देशः पलालस्य दह्यते तच्च पलालमेवेति चेत् तथापि आकाशाद्यमूर्तद्रव्यस्य
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy