________________
सप्तमोऽरः विधिनियमोभयनयः
२३३
ननु पृथिवीभवनमुदकाग्र्यायभवनम्, एतदेवास्य मूलम्, तन्मूलत्वात् किमित्यस्यासत्त्वापत्तिः?
__न, उक्तोपन्यासवद्व्यमिति भवनात् पृथिव्यादिद्रव्यभवनाविनाभावेनैव भवति, ननु द्रव्यमपि गुण इति न भवति, न, सदिति भवनात्, सत्त्वभवनव्याप्त्याभावस्यैव विशेष इति पूर्ववत्, यदि सदित्येव भवति तर्हि सत्त्वाविशेषात् द्रव्यगुणकर्मणामव्यतिरेकात् केन विशेषहेतुना सदेव सर्वमिति भवति? न द्रव्यमेव, गुणकर्मणोरपि सद्भावात्, गुणकर्माभावाद्रव्यं सदिति भवति, गुणकर्मणी च तदभावात्, यतस्तु पटः.............।
यद्येवं घटो भवतीत्युक्तेऽप्यभाव एवोक्तो भवति पटो न भवतीति तर्हि भवतीत्युक्तेऽपि न भवतीत्येवोक्तं भवति, परितो भवनाभावात्, खपुष्पवत्, ननु परितो वचनेन स्वात्मन्यप्यभवनमुक्तं भवति तथा ............ असत्त्वात् पक्षधर्मोऽनर्थत्वैकान्ते कण्ठः कपाले नास्ति ........ पटः कटादिर्न भवति नापि रूपादिरिति।
ननु परितोऽप्यभवनमेव त्वदुक्तं साधयत्यस्मदिष्टं भावमपि कटोऽपि कट इति भवनेव घटपटौ न भवतीति, भवन् गुण इत्यभवनात्, ननु गुणोऽपि भवन्नेव कट इति न भवति विशेषेण, न, द्रव्यमित्यभवनात्, अत्रोच्यते यदि न भवत्येव ..... ततो घटस्यापि ..... घट इति भवतीति।
नन्वेवं विकलादेशपक्षे भावाभावयोः परस्परापेक्षतयाऽव्यवस्थितत्वं परस्परावबद्धनौद्वयवदित्यत्रोच्यते तन व्यवस्थितोपकारि