________________
२३२
द्वादशारनयचक्रे
मृदादिकारणमपेक्षते निर्विशेषत्वे भावाभावत्वेनाविशेषः, कण्ठकपालादिभावाभावाद्यात्मना परस्परतवासत्सु भेदं प्रति वृत्तत्वादिति स्वावयवभेदेषु सदसत्त्वेन वृत्तिः, तद्भावाभावात्मको घटस्तदभावे न भवति, तदभावभावे च भवतीति, तथा घटपटादिद्रव्यक्षेत्रकाल भावसत्ताया घटसामस्त्येपि न कश्चिद्विशेषः वस्तुत्वात्, असामान्यवत्, यथैव .............. गुणावृत्त्यनावृत्तिभेदेषु विवक्षया चैष विशेष उभयोरपि तत्त्वात्।
तथा घटस्तावदस्त्येव, क्रियागुणव्यपदेशवत्त्वात्, पटरथवत् खपुष्पवैलक्षण्येन सर्वसर्वसमवायासत्त्वात्, योग्यस्यैव योग्येषु समवायात्, यथा रूपे घटोऽस्त्येव रूपं वा तदाधारो वा, एकैकस्मिन् वृत्तत्वात्, अथैवं न स्यात्ततोऽसावसनेवापद्यते सिकतास्विव अविद्यमानं तैलम्, अनिष्टश्चैतदेवम्, रूपादीनां प्रत्येकं सत्त्वात्, परस्परं व्यावृत्तात्मत्वाच्च रूपादयः सन्ति, न च तथास्थितौ घटो न भवति, तयोरितरेतराभूतयोराधारभूतस्य वा घटभावात् असामस्त्येन वा भावाभावात्मको घट इति। ... ननु घटरूपादिवत् पृथिव्यपि मृदादिर्विशेषः, यथा स्वाधारेषु घटो भवति रूपादय एव वा, न निर्मूलः तथा पृथिव्यपि मृदादिषु तदात्मिका वा तस्या एव ते विशेषाः, नाभावः, इतरथा निर्मूलत्वाद्धटस्य रूपादीनाश्चासत्त्वं खपुष्पवत्, न चैतदिष्टम्, तथा च रूपादयो मृदादयश्च भावविशेषा एव, एकभवनात्मकत्वात्, घटघटस्वात्मवत्, न चैवमविशेषः, तद्विशेष एव विशेषः पृथिवीसामान्ये सत्येवो विस्तृतत्वादिः घटोऽपि मृदेकभवनात्मकाकारविशेषो भाव एव, न पटायभाव इति।