________________
प्रथमः विधिभङ्गारः
१३
यथालोकप्रसिद्धं पूर्वत्वाच्च घटात्मभवनस्य, अनपेक्षितपूर्वापरप्रभेदत्वात्, प्रकृतिरिति वाऽन्यदिति वा पूर्वापरप्रभेदाः, वर्तमानत्वाच्च तन्न प्रलयभाक्।।
तद्धि तेन रूपेण सर्वकालं सद्वर्तते सत्तार्थत्वात्, वर्त्तत इति भाव इति योऽसौ भावः, तदन्तरङ्गं प्रधानमनपेक्षं पूर्वं वर्तमानञ्चवस्त्विति येऽन्येऽन्यत्कल्पयन्ति कारणमेव कार्यमेव सामान्यमेव विशेष एव तदुभयमेवान्यतरोपसर्जनप्रधानमेव नैव वास्त्युभयमिति किमेतेन।
को हि वादानामन्तं कर्तुं शक्नुयात्, अभियुक्तबुद्धयुत्कर्षपरम्पराया अदृष्टद्रष्टुत्वात्, आह च
'णिययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण अदिहसमयो विभजइ सच्चेवा अलिएव ॥ इति
को ह्येतद्वेद किं वाऽनेन ज्ञातेन ?
तथा च कारणे कार्यसदसत्त्वानियमः, कारणे सत्येव भावाभावाभ्याम्, असति च कारणे कार्यस्य, सेवाद्युद्योगफलानियमात् ।
यथा वा वातककर्कोटकपुष्पं फलकारणं सत्कार्यं पुष्पत्वादानपुष्पवदित्यनुमानप्रसङ्गेऽपि च दृष्टमसत्कार्यम्, अव्यक्तमिति चेन्न व्यक्तिकार्यस्याव्यक्तकार्यत्वादसत्त्वतुल्यत्वात्।
करोतीति कारणं तस्मात्स्वकार्यस्याकरणादकारणत्वमेवेति चेन्न, बीजादीनामपि ह्यकारणतैव क्वचिदकरणादिति कारणमप्य१. सम्म. का. १, गा. २८