________________
द्वादशारनयचक्रे
कारणमेवास्तु, अनिष्टश्चैतत्, लोके पुनरुत्पद्यते कार्यम्, सदसत्त्वानियमात्तु करणे बीजादौ कारणतायामेव सत्यां करणाकरणे ।
१४
कारणे कार्यस्य सदसत्त्वयोरनियमात् करणाकरणयोरनियमे किमर्थं पुनः करोतीति कारणमिति शब्दव्युत्पत्तिराश्रीयते? उच्यते, अविदितवेदनार्थविधिपरतया वाक्यप्रवृत्तेस्तस्यामवस्थायामनुपजनितविषयत्वादपवादस्पर्शस्य, तदा हि करोतीति कारणमिति कारणत्वविधानमात्रं क्रियते, देशकालादिविशेषाविशेषणादसति स्वविषये कमर्थमपवादः स्पृशेत्? किं करोत्येव न करोत्यपि कचित् कदाचित् इति । तदा स मन्यते वक्ता, इदं तावत् प्रतिष्ठां यातु करोतीति कारणमिति, प्रतिष्ठिते चास्मिंस्तत उत्तरकालं सिद्धे सति कारणत्वे कार्यसत्त्वासत्त्वयोस्तेन विशेषणप्रकारेण करोत्येव न करोत्येवेति विकलादेशवशान्नियमोपपत्तेर्विशेषणमाश्रीयते यथा नीलोत्पलं भवतीति ।
तथा न्यग्रोधफलं यथा प्रागुक्तसदसत्त्वानियमात्तु कारणे कार्यस्य कारणतायामेव करणाकरणे तथा कार्यकरणाकरणानियमात्तु कारणस्य कार्यस्य कार्यत्वानियमः ।
इतश्व कार्यकारणसदसत्त्वानियमः सर्वसर्वात्मकत्वसर्वकारणत्वात्, अतः सेवादिक्रियाकलापो यथार्थप्राप्तेः कारणं तथा शप्राप्तेरपि । नन्वत एव क्लेशोऽपि भवतीति चेदेवं सतीप्सितेन तावद्भवितव्यं, ईप्सितच फलमर्थप्राप्तिर्न क्लेशः सेवकस्य, सन्निहिततच्छक्त्यभीहितत्वात्।