________________
सप्तमोऽरः विधिनियमोभयनयः
२२७
निवृत्तिः, तद्यथा य उक्तः कार्यकारणाधाराधेयसमवायात्तस्यैकत्वात् स द्रव्यभावेन सम्बन्धात्ते द्रव्यमेवैकं करोति, ततश्च द्रव्यलक्षणं नास्ति, क्रियावद्गुणवत् समवायिकारणमिति, तदभावान द्रव्यम्, न गुणकर्माणि तथा लक्षणानीति द्रव्यस्यापि द्रव्यभावनिवृत्तिः, एवं गुणकर्मणोरपि।
द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादीनामाश्रयाभावादनुपपत्तिः, परस्पररूपापत्त्या परस्परभावनिवृत्तौ द्रव्यादिषट्पदार्थनिवृत्तिः, यच्चाधाराधेयभावभेदे संयोगवडिवृत्तित्वात् समवायस्यानित्यत्वं स्यादिति पूर्वपक्षं कृत्वा परिहारमाह वैशेषिकः, न, बहूनामेकत्वात्, न तु द्वयोर्द्वयोः सम्बन्धत्वं संयोगवत् समवायस्येति, एतेनापि सङ्कप्रसङ्गः, पदार्थलक्षणव्यवस्थानासम्भवात् षट्पदार्थनिवृत्तिर्वा, यत्तु प्रत्युक्तं नाधाराधेयनियमात् – यद्यप्येक एव समवायः तथाप्याधाराधेयनियमोऽस्ति द्रव्य एव द्रव्यत्वं गुण एव गुणत्वं कर्मण्येव कर्मत्वं सर्वत्र चैकः समवाय इति एतदपि प्रत्युक्तं सर्वत्र सर्वाधेयवृत्तौ सर्वाभिधानप्रत्ययसाात् कथं द्रव्यादीनि प्रतिनियतानीति।
यत्तूच्यतेऽवगम्यतां तावत् यथा कुण्डदधिसंयोगे दध्येवाधेयं कुण्डमेवाधार इति नियमस्तथा द्रव्यादीनां समवायैकत्वेऽप्याधाराधेय -नियमः स्यादिति, इदमपि स्ववादेनैवोत्तरमार्गविधानं कृतं त्वया, न तु तथा सङ्कराभावो घटते, यदि दधिमधूदकादिभिर्वहुभिराधेयैः कुण्डाधारः संयुक्तो भवति ततः किमिति सङ्को नास्ति? यदि सर्वात्मकः समवाय एक एव भवति तदा किमिति सङ्करो न स्यात्?