SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२६ द्वादशारनयचक्रे कर्तृणाऽकर्तृणा च यो भवति स एव भावः सामान्य देशकालादिभेदेऽपि भवनतुल्यत्वात्, स एव विशेषोऽन्यभवन निरपेक्षः कर्ता उक्तवत्, भवदेव भवति तदेव द्रव्यं भव्यं कलनं गुणः युगपदयुगपत्पर्यायत्वेन भवनात्, स एव भावः क्रिया, स एव विशेषः भावान्तराद्विशिष्यमाणत्वात् अन्यनिरपेक्षत्वात् सदसदात्मकत्वात् वक्ष्यमाणवच्च, स एव समवायः, एवमेव भवतः कर्तृत्वेन तस्यैव कारणत्वं तदेकीभावगत्या कार्यत्वापत्तेः, सहासत्त्वेन कर्तृत्वात् नासंयोगः, कार्यकारणप्रतिपादनात् नासमवायः, ताभ्यां सम्बद्धत्वानित्यत्वासत्त्वे न स्तः। अथ वा अकारणनित्यासम्बन्धाजातीनि द्रव्यादीनि, स्वतः सत्त्वात् सामान्यादिवत्, कारणादि वा सामान्यादीनि स्वतः सत्त्वात्, द्रव्यादिवत् तदात्मत्वात्, उभयं वा, इतरेतररूपैकभवना विशेषात्। यदपि च समवायस्यैकत्वे सङ्कप्रसङ्ग इति दोष उक्तः स तदवस्थ एव, बहूनां सम्बन्धिनामेकसम्बन्धभावात्, वागादिगवाद्यभिधानवत्, तस्माद्र्व्यत्वसम्बन्धाद्यथा द्रव्ये द्रव्यत्वबुद्धिं तथा गुणे कर्मणि च द्रव्यत्वबुद्धिं कुर्यादिति सर्वस्य सर्वाभिधानप्रत्ययौ स्याताम्, पदार्थलक्षणव्यवस्थानस्याभावात् षडपि पदार्था निवर्तन्ते कथम्? समवायस्यैकत्वात् द्रव्यत्वेन गुणकर्मणोः सम्बन्धाद्रव्यत्वात्तयोश्च स्वरूपस्य हानिः, तत्त्वविशेषणभेदाद्धि तद्भेदः स्यात्, छत्रिदण्डिवत्। ___कार्यकारणाधाराधेयसमवायात्तौ गुणकर्मभावौ भविष्यत इति चेत्, न, तयोर्गुणकर्मणोर्गुणकर्मभावनिवृत्त्या प्रथमद्रव्यभाव
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy