________________
२२८
द्वादशारनथचक्रे
नापि च द्विवृत्तित्वनिवृत्तिः समवायस्य, यतः संयोगाद्वैधर्म्यमुच्यते सर्वत्रैव च द्रव्यद्रव्यत्वादिसमवाये द्विवृत्तित्वं त्वयैवोपवर्ण्यते, द्वयविशिष्टाभिधानप्रत्ययत्वात् कुण्डदध्यादिसंयोगवत्, यथा कुण्डोः संयोगे दध्ना कुण्डेन वा विशिष्टे तन्निमित्तमभिधानं प्रत्ययश्च दृश्यते तद्विवृत्तित्वञ्च तथा समवायेऽपि द्रव्यगुणयोः विशिष्टे तन्निमित्तमभिधानं प्रत्ययश्च स्यात् तद्विवृत्तित्वञ्च, तथा च समवायस्य संयोगवह्निवृत्तित्वादनित्यतैव ।
?
यत्त्विदं स्वतत्त्वानुरूपप्रत्ययोत्पत्तेः परस्परव्यतिरिक्तैराधेयैर्द्रव्यत्वादिभिराधाराणां द्रव्यादीनां नियमनं द्रव्येष्वेव द्रव्यमिति ज्ञानमित्यादि, अनेन स्वपक्षे प्रत्यक्षविरोध उद्वाह्यते त्वया न हि समवायस्यैकत्वे व्यतिरेको नियमश्वास्ति, अविशिष्टत्वादतो न स्यात् द्रव्येष्वेव द्रव्यमिति ज्ञानम् एवं ते द्रव्येष्वपि गुणज्ञानं स्यात्, गुणज्ञानकारणत्वात् समवायस्य, गुणवत्, एकत्वे योऽयं द्रव्यस्य द्रव्यभावेन सम्बन्धः स एव गुणस्यापीति प्राप्तं द्रव्यस्यापि गुणत्वम्, तस्य गुणभावेन सम्बद्धत्वाद्गुणवत् द्रव्यभावनिवृत्तिरिति । तस्य द्रव्यस्य गुणभावेन सम्बद्धत्वाद्गुणभूतस्य गुणानाश्रयस्याभावः, असति द्रव्ये कस्य गुण इति गुणभावनिवृत्तिः तल्लक्षणानुपपत्तेः क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणम् द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणमिति, ततश्च गुणेष्वपि द्रव्यज्ञानं स्यात् किं कारणम् ? द्रव्यज्ञानकारणत्वात् समवायस्य, द्रव्यवत्, एकत्वे योऽयं गुणस्य गुणभावेन सम्बन्धः स एव द्रव्यस्यापीति प्राप्तं गुणस्यापि द्रव्यत्वम्, द्रव्यत्वाभिसम्बन्धाच्च तस्य द्रव्यत्वापत्तिर्गुणत्वत्यागश्च द्वे अनवस्थाने ।