________________
सप्तमोऽरः विधिनियमोभयनयः
२२३ द्वयोरगुल्योराकाशे युज्यमानयोः संयोगस्य सम्बन्धिनोः पृथक् सिद्धयोरिवेति सोऽपि न परिहारः, उक्तवदसंयोगासिद्धत्वात्, यदि तत्रोत्पन्नतायसिद्धिः सम्बन्धासिद्धिश्च स्यात् स्यादसंयोगः ततः परिहारश्च युतसिद्धिदोषस्य स्यादिति।
तत्त्वोपनिलयनात् सदायभिधानार्थं कारणसमवेतस्य वस्तुन उत्तरकालं सत्तासम्बन्ध इति बहूनां मतम्, वस्तूत्पत्तिकाल एवेति तु वाक्यकाराभिप्रायोऽनुसृतो भाष्यकारैः; सिद्धस्य वस्तुनः स्वकारणैः स्वसत्तया च सम्बन्ध इति प्रशस्तमतेरभिप्रायः, अस्मदभिप्रायस्तेषां त्रयाणामप्यसत्यतेति, परस्परविरुद्धार्थत्वात्, कुमारब्रह्मचारिपितृत्ववत्, इदमेवोदाहरणमन्यत्र, एवं वक्तुरिव सर्वेषां शास्त्रकारमतानुवर्त्तित्वात् स एवानाप्तः स्यात्।।
__सदादिविकल्पानुपपत्तिश्च तदवस्थैव, यत्पुनद्रव्यादीनां स्वत एवाभिधानप्रत्ययविषयत्वं सत्त्वात् सत्तादिवत्, यथा च सत्तायां स्वत एवाभिधानप्रत्ययौ एवं द्रव्यादेः, न सत्तायोगादित्युक्तुरुच्यते परिहारः काणादै तत्, अतादात्म्याद्दण्डनिमित्तादण्डदण्डित्ववत्, यथाऽदण्डाइण्डिनो दण्डित्वं दण्डनिमित्तमेवं द्रव्यादेरसदात्मनः सत्तानिमित्तं सदभिधानादीति।
अत्र वयं सम्प्रधारयामस्त्वया सह कथमिदं तादात्म्यं किं सतो भावात्? उत सत्करत्वादिति, तयदि तावत् सतो भवनं ततः सर्वेणापि सता भूयते, स्वत एव अथ सत्करत्वात्तादात्म्य तत् प्राक्" प्रत्युक्तम्, यथा च सत्तायां स्वत एव सदभिधानप्रत्ययौ तदात्मत्वादेवं द्रव्यादौ द्रव्यत्वादौ नित्यैकसर्वत्रगेषु सामान्यसामान्य