________________
-
२२४
द्वादशारनयचक्रे विशेषशून्येष्वपि, दण्डेऽपि च तादात्म्यादेव दण्डाभिधानप्रत्ययसिद्धौस्वत एव दण्डिनि तौ तादात्म्यात्, इतरथा दण्डिकुण्डल्यविशेषः स्यादिति, तथा च दण्डत्वसामान्यविशेषनिरपेक्षः स्वत एव भवति दण्डस्तादात्म्यात् सत्तावदिति सिद्धम्।
अयोऽच्येत दण्डोऽपि दण्डत्वाद्दण्डाभिधानप्रत्ययभागिति, अनुदाहरणं तर्हि दण्डी दण्डाद्दण्ड्यभावात्, दण्डस्य स्वतोऽ सिद्धत्वात्, दण्डत्वोपपादितदण्डाद्दण्डीति चेत्, इतरेतराश्रयत्वात्, दण्डत्वतत्त्वाइण्डसिद्धिः दण्डविशेषणसाधितदण्डत्वसिद्धेर्दण्डत्वतत्त्वसिद्धिरिति, दण्डीति च दण्डाद्दण्डी, न तु दण्डत्वात् स्वत एव भवद्दण्डी, आत्मान्तरसङ्क्रान्तिश्चैवम्, दण्डत्वादात्मान्तरं दण्डः स्वत एवाभवन् दण्डत्वाद्भवन् तदात्मा भवति, एवं दण्डयपीति, वयन्तु बमो यत्तद्दण्डेन भूयते तस्यैव दण्डत्वात् यद्दण्डी दण्डी भवति स देवदत्तो भवत्यात्मानं लभते, तदभावेऽसामान्यात्मकत्वमेव सर्वस्य स्यात्, यदि सा स्वत एव न भवति सत्तासामान्यादितत्त्वाद्भवति नास्त्येव सा, खपुष्पवत्, ततश्चासामान्यमेव सत्तादिः स्यात्, स्वत एव भवतः समानस्याभावात्, तस्मात् स्वत एव दण्डो भवति स्वत एव सदभिधानप्रत्ययौ, न सत्तायोगात् एवं दण्ड्यपि।
यदप्युक्तमतदात्मत्वात् द्रव्यादीनां सदभिधानप्रत्ययौ सत्तायोगात् न स्वत इति तदपि न, अतदात्मत्वादित्यादेरनैकान्तिकत्वात्, द्रव्यत्वादीनामतादात्म्ये स्वतः सदभिधानप्रत्ययौ न सत्तातः, एकैकत्वात्, आत्मवत्, एवं द्रव्यादीनामपि स्वत एव द्रव्यत्वादिवत्।