________________
२२२
द्वादशारनयचक्रे कारणत्वनिवृत्तिः, न चैवम्, तस्माददोष इति, सोऽप्यपरिहारः इच्छामात्रत्वात् स्वोक्तोपपत्तिविरुद्धार्थत्वात्, विरुद्धार्थत्वमसम्बद्धत्वात्, तन्तुष्विव घटस्य, द्रव्यादिकार्यस्य तदसिद्धमिति चेन्न, तत्राप्रवृत्तत्वात्, तत्रानारम्भात् तदसम्बद्धोत्पत्तित्वात्, कार्यस्य च तदसम्बद्धस्याप्युत्पादे खपुष्पमप्युत्पद्यतां कारणैरसम्बद्धत्वात्, त्वदभिमतकार्यवत्। ____ अकारणत्वादिति चेत्, पटाद्यपि कार्य मोत्पादि, अकारणत्वात्, खपुष्पवत्, तद्वोत्पयताम्, अकारणत्वात्, कार्यस्योत्पत्तिवत्, यथा तन्त्वादीनि कार्येणासम्बन्धादसतः सतोऽप्यकारणानीति सर्वश्च कारणमकारणञ्च यथायोगं स्वस्यैव कार्यस्य नासतो नान्यकार्यस्य वा, असम्बन्धात्, कार्यकारणभावश्च सम्बद्धत्वे सति भवति, तस्मात् सम्बन्धः प्रागपि कार्योत्पत्तेः । ____ योऽयमेकीभावेन बन्धः स सम्बन्धः, अनेकसबैकात्मकत्वात्, एकीभावेनापगमनेन गतिः, द्रव्यपर्यायाभ्यां तन्तुत्वापरित्यागेन पटत्वपरिणामः समवायः कारणसत्कार्यैकत्वलक्षणः, तदापत्तिरूपाद्भयात्त्वयेदममार्गप्रपदनमस्थाने क्रियते यदिदं अव्यपदेश्याधारकार्यसम्बन्धकल्पनम्, कार्यस्यासत्त्वात् । ___ सोऽपि च मिथ्याभिमान एव मन्यतान्तु तत्रैवास्तीति, परिनिष्ठितत्वात्, विभुपरिमण्डलवियदादिवत्।
योऽपि च कार्यकारणयुतसिद्धिदोषस्य परिहारः तस्यासंयोगात् न हि कारणसम्बन्धिभिः कार्यस्य संयोगोऽस्ति,