SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सप्तमist: विधिनियमोभयनयः असत्सम्बन्धदोषपरिहारार्थञ्च प्रशस्तोऽन्यथा व्याचष्टे सम्बन्धश्च सम्बन्धश्च सम्बन्धौ निष्ठायाः सम्बन्धौ निष्ठासम्बन्धौ न निष्ठा च सम्बन्धश्चेति, तयोर्निष्ठासम्बन्धयोरेककालत्वात् निष्ठितं निष्ठां गच्छद्गतमिति, कोऽर्थः ? कर्त्रादीनां कारकाणां परिस्पन्दाद्वस्तु भावमापन्नमव्यपदेश्याधारं समवायहेतुः कार्यं निष्ठितं निष्ठेत्युच्यते तस्य स्वकारणैः सत्तया च युगपत् सम्बन्धौ भवत इति, भाष्यमपि - केन पुनर्लक्षणेन गतं सद्गच्छदित्युच्यते ब्रूमः ' वर्त्तमानसामीप्ये वर्त्तमानबद्धा" इति किमिव ? यथा कारकान्तरादुत्पद्यमानं उत्पन्नमित्यर्थः, कस्मात् ? दृष्टमित्यक्षिगोचरापन्नार्थनिर्देशात्, इतरथा दृष्टं न स्यात्, तत्पुनः कतमत् कारकव्यापारात् ? देवदत्तस्थालीकाष्ठादीनां व्यापारादिति । २२१ " तदपि न समवायिकारणत्वविरोधात् स्ववचनविरोधोऽ भ्युपगमविरोधश्च यदि पुनर्वस्तुभावं गतं कार्यं कारणैः सत्तया चाभिसम्बध्यते ततोऽनारम्भकाण्यकारणानि च कारणद्रव्याणि स्युः, किञ्च कार्यकारणगुणगुणिव्यक्त्याकृतीनामयुतसिद्धः समवायः सम्बन्ध उक्तोऽभ्युपगतश्च तयोर्विरोधोऽपि इदानीं निष्ठितस्य कार्यस्य कारणैः सत्तया च सम्बन्धोऽभ्युपगतस्स च युतसिद्धः, कार्यस्य कारणेभ्योऽन्यत्र परिनिष्ठितत्वात् । यत्तूच्यते समवायिकारणत्वनिवृत्तिरिति चेन्न, अन्यत्रासमवायात्, यदि तस्य समवायोऽन्यत्र स्यात् स्यात् समवायि - . १. पाणिनि ३.३.१३१
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy