SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२० द्वादशारनयचक्रे यदि निष्ठायाः सम्बन्धाद्वा सत्त्वं तदा हि शशविषाणमपि निष्ठां गच्छत्सम्बध्येत, निष्ठितञ्च सम्बद्धश्चेति भवेदसत्त्वात्, कार्यवत्, कार्यमपि वा तदा परिनिष्ठां गच्छत् स्वकारणैः सत्तया च न सम्बध्यते, असत्त्वात् खपुष्पवदिति। इतश्वेतश्च समानत्वानेति चेत्-यथाऽसतः समवायसम्बन्धेन द्विविधेन स्वकारणसत्त्वादिभिः सम्बध्यमानताऽदृष्टा तद्वत् सतोऽपि स्यादविशेषात्, न हि सम्बध्यमानं विशिष्टं किञ्चिदिहाधिकृतमित्यत्र ब्रूमः, सम्बन्ध एव स न भवति, सत्स्वभूतत्वात्, शशविषाणवत्, विद्यमानविषयेणैव तेन भवितव्यम्, सम्बन्धत्वात्, व्यङ्गुलिसंयोगवत्। यदि त्वात्मात्मीययोरिह यथाविवक्षं स्वशब्दस्य वृत्तेरर्थव्यञ्जनसद्भावकर्तृत्वनिर्विषयास्त एव तन्तवः परिनिष्ठां गच्छन्तः सम्बध्यन्ते परिनिष्ठिताश्च सम्बद्धाधेति, तदा ते यदि तन्तव इत्येव तर्हि कारणमात्रवादवदयं स्यात्, सोऽपि न प्रतिपूर्येत, निर्व्यापारकारणमात्रवादाभ्युपगमात्, तन्त्वाकुण्डलनवत्, यथा तन्तूनामाकुण्डलीकृतानां कुविन्दनयनानयनप्रसारणवयनादिक्रियानिरपेक्षाणां कारणत्वं नास्ति, तत्रात्यन्तं पटकार्यादर्शनात् तथा कारणमात्रमसम्पूर्णसत्कार्यमेतत्, पूर्वोत्तरकालतुल्यत्वात्। परिनिष्ठाऽपरिनिष्ठाऽविशेषश्च खपुष्पवत्, अथ पटोऽपि केनचिन्यायेन तन्तुष्वस्तीत्यभ्युपगम्यते ततः स्वकार्यकारणसत्तासम्बन्धद्वयतन्तुपटद्वयसानिध्यं नानेकान्तानाश्रयणे, तस्मादेषोऽपि विकल्पोऽसत्सम्बन्धदोषदुष्ट इति।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy